ऋग्वेदसंहिता, पदपाठ · अध्याय 7.48
॥14॥.
-र्व्_5:4।15-
(र्व्_7,48)
ऋभु-क्षणः । वाजाः । मादयध्वम् । अस्मे इति । नरः । मघ-वानः । सुतस्य । आ । वः । अर्वाचः । क्रतवः । न । याताम् । वि-भ्वः । रथम् । नर्यम् । वर्तयन्तु
ऋभुः । ऋभु-भिः । अभि । वः । स्याम । वि-भ्वः । वि-भुमिः । शवसा । शवांसि । वाजः । अस्मान् । अवतु । वाज-सातौ । इन्द्रेण । युजा । तरुषेम । वृत्रम्
ते । चित् । हि । पूर्वीः । अभि । सन्ति । शासा । विश्वान् । अर्यः । उपर-ताति । वन्वन् । इन्द्रः । वि-भ्वा । ऋभुक्षाः । वाजः । अर्यः । शत्रोः । मिथत्या । कृणवन् । वि । नृम्णम्
नु । देवासः । वरिवः । कर्तन । नः । भूत । नः । विश्वे । अवसे । स-जोषाः । सम् । अस्मे इति । इषम् । वसवः । ददीरन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0