ऋग्वेदसंहिता, पदपाठ · अध्याय 7.49
॥15॥.
-र्व्_5:4।16-
(र्व्_7,49)
समुद्र-ज्येष्ठाः । सलिलस्य । मध्यात् । पुनानाः । यन्ति । अनि-विशमानाः । इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्तु
याः । आपः । दिव्याः । उत । वा । स्रवन्ति । खनित्रिमाः । उत । वा । याः । स्वयम्-जाः । समुद्र-अर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु
यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति । अव-पश्यन् । जनानाम् । मधु-श्चुतः । शुचयः । याः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु
यासु । राजा । वरुणः । यासु । सोमः । विश्वे । देवाः । यासु । ऊर्जम् । मदन्ति । वैश्वानरः । यासु । अग्निः । प्र-विष्टः । ताः । आपः । देवीः । इह । माम् । अवन्तु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0