ऋग्वेदसंहिता, पदपाठ · अध्याय 7.47
॥13॥.
-र्व्_5:4।14-
(र्व्_7,47)
आपः । यम् । वः । प्रथमम् । दव-यन्तः । इन्द्र-पानम् । ऊर्मिम् । अकृण्वत । इळः । तम् । वः । वयम् । शुचिम् । अरिप्रम् । अद्य । घृत-प्रुषम् । मधु-मन्तम् । वनेम
तम् । ऊर्मिम् । आपः । मधुमत्-तमम् । वः । अपाम् । नपात् । अवतु । आशु-हेमा । यस्मिन् । इन्द्रः । वसु-भिः । मादयाते । तम् । अश्याम । देव-यन्तः । वः । अद्य
शत-पवित्राः । स्वधया । मदन्तीः । देवीः । देवानाम् । अपि । यन्ति । पाथः । ताः । इन्द्रस्य । न । मिनन्ति । व्रतानि । सिन्धु-भ्यः । हव्यम् । घृत-वत् । जुहोत
याः । सूर्यः । रश्मि-भिः । आततान । याभ्यः । इन्द्रः । अरदत् । गातुम् । ऊर्मिम् । ते । सिन्धवः । वरिवः । धातन । नः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0