ऋग्वेदसंहिता, पदपाठ · अध्याय 7.46
॥12॥.
-र्व्_5:4।13-
(र्व्_7,46)
इमाः । रुद्राय । स्थिर-धन्वने । गिरः । क्षिप्र-सवे । देवाय । स्वधाव्ने । अषाळ्हाय । सहमानाय । वेधसे । तिग्म-आयुधाय । भरत । शृणोतु । नः
सः । हि । क्षयेण । क्षम्यस्य । जन्मनः । साम्-राज्येन । दिव्यस्य । चेतति । अवन् । अवन्तीः । उप । नः । दुरः । चर । अनमीवः । रुद्र । जासु । नः । भव
या । ते । दिद्युत् । अव-सृष्टा । दिवः । परि । क्ष्मया । चरति । परि । सा । वृणक्तु । नः । सहस्रम् । ते । सु-अपिवात । भेषजा । मा । नः । तोकेषु । तनयेषु । रिरिषः
मा । नः । वधीः । रुद्र । मा । परा । दाः । मा । ते । भूम । प्र-सितौ । हीळितस्य । आ । नः । भज । बर्हिषि । जीव-शंसे । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0