भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.45

7.45.1

॥11॥.
-र्व्_5:4।12-
(र्व्_7,45)
आ । देवः । यातु । सविता । सु-रत्नः । अन्तरिक्ष-प्राः । वहमानः । अश्वैः । हस्ते । दधानः । नर्या । पुरूणि । नि-वेशयन् । च । प्र-सुवन् । च । भूम

7.45.2

उत् । अस्य । बाहू इति । शिथिरा । बृहन्ता । हिरण्यया । दिवः । अन्तान् । अनष्टाम् । नूनम् । सः । अस्य । महिमा । पनिष्ट । सूरः । चित् । अस्मै । अनु । दात् । अपस्याम्

7.45.3

सः । घ । नः । देवः । सविता । सह-वा । आ । साविषत् । वसु-पतिः । वसूनि । वि-श्रयमाणः । अमतिम् । उरूचीम् । मर्त-भोजनम् । अध । रासते । नः

7.45.4

इमाः । गिरः । सवितारम् । सु-जिह्वम् । पूर्ण-गभस्तिम् । ईळते । सु-पाणिम् । चित्रम् । वयः । बृहत् । अस्मे इति । दधातु । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc