ऋग्वेदसंहिता, पदपाठ · अध्याय 7.3
॥2॥.
-र्व्_5:2।3-
(र्व्_7,3)
अग्निम् । वः । देवम् । अग्नि-भिः । स-जोषाः । यजिष्ठम् । दूतम् । अध्वरे । कृणुध्वम् । यः । मर्त्येषु । नि-ध्रुविः । ऋत-वा । तपुः-मूर्धा । घृत-अन्नः । पावकः
प्रोथत् । अश्वः । न । यवसे । अविष्यन् । यदा । महः । सम्-वरणात् । वि । अस्थात् । आत् । अस्य । वातः । अनु । वाति । शोचिः । अध । स्म । ते । व्रजनम् । कृष्णम् । अस्ति
उत् । यस्य । ते । नव-जातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । इधानाः । अच्छ । द्याम् । अरुषः । धूमः । एति । सम् । दूतः । अग्ने । ईयसे । हि । देवान्
वि । यस्य । ते । पृथिव्याम् । पाजः । अश्रेत् । तृषु । यत् । अन्ना । सम्-अवृक्त । जम्भैः । सेनाइव । सृष्टा । प्र-सितिः । ते । एति । यवम् । न । दस्म । जुह्वा । विवेक्षि
तम् । इत् । दोषा । तम् । उषसि । यविष्ठम् । अग्निम् । अत्यम् । न । मर्जयन्त । नरः । नि-शिशानाः । अतिथिम् । अस्य । योनौ । दीदाय । शोचिः । आहुतस्य । वृष्णः
॥3॥.
-र्व्_5:2।4-
सु-सन्दृक् । ते । सु-अनीक । प्रतीकम् । वि । यत् । रुक्मः । न । रोचसे । उपाके । दि वः । न । ते । तन्यतुः । एति । शुष्मः । चित्रः । न । सूरः । प्रति । चक्षिभानुम्
यथा । वः । स्वाहा । अग्नये । दाशेम । परि । इळाभिः । घृतवत्-भिः । च । हव्यैः । तेभिः । नः । अग्ने । अमितैः । महः-भिः । शतम् । पूः-भिः । आयसीभिः । नि । पाहि
याः । वा । ते । सन्ति । दाशुषे । अधृष्टाः । गिरः । वा । याभिः । नृ-वतीः । उरुष्याः । ताभ् इः । नः । सूनो इति । सहसः । नि । पाहि । स्मत् । सूरीन् । जरितॄन् । जात-वेदः
निः । यत् । पूताइव । स्व-धितिः । शुचिः । गात् । स्वया । कृपा । तन्वा । रोचमानः । आ । यः । मात्रोः । उशेन्यः । जनिष्ट । देव-यज्याय । सु-क्रतुः । पावकः
एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सु-चेतसम् । वतेम । विश्वा । स्तोतृ-भ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0