भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.38

7.38.1

॥4॥.
-र्व्_5:4।5-
(र्व्_7,38)
उत् । ओं इति । स्यः । देवः । सविता । ययाम । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् । नूनम् । भगः । हव्यः । मानुषेभिः । वि । यः । रत्ना । पुरु-वसुः । दधाति

7.38.2

उत् । ओं इति । तिष्ठ । सवितरिति । श्रुधि । अस्य । हिरण्य-पाणे । प्र-भृतौ । ऋतस्य । वि । उर्वीम् । पृथ्वीम् । अमतिम् । सृजानः । आ । नृ-भ्यः । मर्त-भोजनम् । सुवानः

7.38.3

अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति । सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायु-भिः । नि । सूरीन्

7.38.4

अभि । यम् । देवी । अदितिः । गृणाति । सवम् । देवस्य । सवितुः । जुषाणा । अभि । सम्-राजः । वरुणः । गृणन्ति । अभि । मित्रासः । अर्यमा । स-जोषाः

7.38.5

अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् दिवः । राति-साचः । पृथिव्याः । अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनु-भिः । नि । पातु

7.38.6

अनु । तत् । नः । जाः-पतिः । मंसीष्ट । रत्नम् । देवस्य । सवितुः । इयानः । भगम् । उग्रः । अवसे । जोहवीति । भगम् । अनुग्रः । अध । याति । रत्नम्

7.38.7

शम् । नः । भवन्तु । वाजिनः । हवेषु । देव-ताता । मित-द्रवः । सु-अर्काः । जम्भयन्तः । अहिम् । वृकम् । रक्षांसि । स-नेमि । अस्मत् । युयवन् । अमीवाः

7.38.8

वाजे--वाजे । अवत । वाजिनः । नः । धनेषु । विप्राः । अमृताः । ऋत-ज्ञाः । अस्य । मध्वः । पिबत । मादयध्वम् । तृप्ताः । यात । पथि-भिः । देव-यानैः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc