ऋग्वेदसंहिता, पदपाठ · अध्याय 7.39
॥5॥.
-र्व्_5:4।6-
(र्व्_7,39)
ऊर्ध्वः । अग्निः । सु-मतिम् । वस्वः । अश्रेत् । प्रतीची । जूर्णिः । देव-तातिम् । एति । भेजाते । अद्री इति । रथ्याइव । पन्थाम् । ऋतम् । होता । नः । इषितः । यजाति
प्र । ववृजे । सु-प्रया । बर्हिः । एषाम् । आ । विश्पतीइवेति विश्पती-इव । बीरिटे । इयातेइति । विशाम् । अक्तोः । उषसः । पूर्व-हूतौ । वायुः । पूषा । स्वस्तये । नियुत्वान्
ज्मयाः । अत्र । वसवः । रन्त । देवाः । उरौ । अन्तरिक्षे । मर्जयन्त । शुभ्राः । अर्वाक् । पथः । उरु-ज्रयः । कृणुध्वम् । श्रोता । दूतस्य । जग्मुषः । नः । अस्य
ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । सध-स्थम् । विश्वे । अभि । सन्तिदेवाः । तान् । अध्वरे । उशतः । यक्षि । अग्ने । श्रुष्टी । भगम् । नासत्या । पुरम्-धिम्
आ । अग्ने । गिरः । दिवः । आ । पृथिव्याः । मित्रम् । वह । वरुणम् । इन्द्रम् । अग्निम् । आ । अर्यमणम् । अदितिम् । विष्णुम् । एषाम् । सरस्वती । मरुतः । मादयन्ताम्
ररे । हव्यम् । मति-भिः । यज्ञियानाम् । नक्षत् । कामम् । मर्त्यानाम् । असिन्वन् । धाता । रयिम् । अवि-दस्यम् । सदासाम् । सक्षीमहि । युज्येभिः । नु । देवैः
नु । रोदसी इति । अभिस्तुतेइत्य् अभि-स्तुते । वसिष्ठैः । ऋत-वानः । वरुणः । मित्रः । अग्निः । यच्छन्तु । चन्द्राः । उप-मम् । नः । अर्कम् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0