ऋग्वेदसंहिता, पदपाठ · अध्याय 7.37
॥2॥.
-र्व्_5:4।3-
(र्व्_7,37)
आ । वः । वाहिष्ठः । वहतु । स्तवध्यै । रथः । वाजाः । ऋभुक्षणः । अमृक्तः । अभि । त्रि-पृष्ठैः । सवनेषु । सोमैः । मदे । सु-शिप्राः । मह-भिः । पृणध्वम्
यूयम् । ह । रत्नम् । मघवत्-सु । धत्थ । स्वः-दृशः । ऋभुक्षणः । अमृक्तम् । सम् । यज्ञेषु । स्वधावन्तः । पिबध्वम् । वि । नः । राधांसि । मति-भिः । दयध्वम्
उवोचिथ । हि । मघ-वन् । देष्णम् । महः । अर्भस्य । वसुनः । वि-भागे । उभा । ते । पूर्णा । वसुना । गभस्ती इति । न । सूनृता । नि । यमते । वसव्या
त्वम् । इन्द्र । स्व-यशाः । ऋभुक्षाः । वाजः । न । साधुः । अस्तम् । एषि । ऋक्वा । वयम् । नु । ते । दाश्वांसः । स्याम । ब्रह्म । कृण्वन्तः । हरि-वः । वसिष्ठाः
सनिता । असि । प्र-वतः । दाशुषे । चित् । याभिः । विवेषः । हरि-अश्व । धीभिः । ववन्म । नु । ते । युज्याभिः । ऊती । कदा । नः । इन्द्र । रायः । आ । दशस्येः
॥3॥.
-र्व्_5:4।4-
वासयसि-इव । वेधसः । त्वम् । नः । कदा । नः । इन्द्र । वचसः । बुबोधः । अस्तम् । तात्या । धिया । रयिम् । सु-वीरम् । पृक्षः । नः । अर्वा । नि । उहीत । वाजी
अभि । यम् । देवी । निः-ऋतिः । चित् । ईशे । नक्षन्ते । इन्द्रम् । शरदः । सु-पृक्षः । उप । त्रि-बन्धुः । जरत्-अष्टिम् । एति । अस्ववेशम् । यम् । कृणवन्त । मर्ताः
आ । नः । राधांसि । सवितरिति । स्तवध्यै । आ । रायः । यन्तु । पर्वतस्य । रातौ । सदा । नः । दिव्यः । पायुः । सिसक्तु । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0