भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.36

7.36.1

॥30॥.
-र्व्_5:4।1-
(र्व्_7,36)
प्र । ब्रह्म । एतु । सदनात् । ऋतस्य । वि । रश्मि-भिः । ससृजे । सूर्यः । गाः । व् इ । सानुना । पृथिवी । सस्रे । उर्वी । पृथु । प्रतीकम् । अधि । आ । ईधे । अग्निः

7.36.2

इमाम् । वाम् । मित्रावरुणा । सु-वृक्तिम् । इषम् । न । कृण्वे । असुरा । नवीयः । इनः । वाम् । अन्यः । पदवीः । अदब्धः । जनम् । च । मित्रः । यतति । ब्रुवाणः

7.36.3

आ वातस्य । ध्रजतः । रन्ते । इत्याः । अपीपयन्त । धेनवः । न । सूदाः । महः । दिवः । सदने । जायमानः । अचिक्रदत् । वृषभः । सस्मिन् । ऊधन्

7.36.4

गिरा । यः । एता । युनजत् । हरी इति । ते । इन्द्र । प्रिया । सु-रथा । शूर । धायू इति । प्र । यः । मन्युम् । रिरिक्षतः । मिनाति । आ । सु-क्रतुम् । अर्यमणम् । ववृत्याम्

7.36.5

यजन्ते । अस्य । सख्यम् । वयः । च । नमस्विनः । स्वे । ऋतस्य । धामन् । व् इ । पृक्षः । बाबधे । नृ-भिः । स्तवानः । इदम् । नमः । रुद्राय । प्रेष्ठम्

7.36.6

॥1॥.
-र्व्_5:4।2-
आ । यत् । साकम् । यशसः । वावशानाः । सरस्वती । सप्तथी । सिन्धु-माता । याः । सुस्वयन्त । सु-दुघाः । सु-धाराः । अभि । स्वेन । पयसा । पीप्यानाः

7.36.7

उत । त्ये । नः । मरुतः । मन्दसानाः । धियम् । तोकम् । च । वाजिनः । अवन्तु । मा । नः । परि । ख्यत् । अक्षरा । चरन्ती । अवीवृधन् । युज्यम् । ते । रयिम् । नः

7.36.8

प्र । वः । महीम् । अरमतिम् । कृणुध्वम् । प्र । पूषणम् । विदथ्यम् । न । वीरम् । भगम् । धियः । अवितारम् । नः । अस्याः । शातौ । वाजम् । राति-साचम् । पुरम्-धिम्

7.36.9

अच्छ । अयम् । वः । मरुतः । श्लोकः । एतु । अच्छ । विष्णुम् । निसिक्त-पाम् । अवः-भ् इः । उत । प्र-जायै । गृणते । वयः । धुः । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc