भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.35

7.35.1

॥27॥.
-र्व्_5:3।28-
(र्व्_7,35)
शम् । नः । इन्द्राग्नी इति । भवताम् । अवः-भिः । शम् । नः । इन्द्रावरुणा । रात-हव्या । शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाज-सातौ

7.35.2

शम् । नः । भगः । शम् । ओं इति । नः । शंसः । अस्तु । शम् । नः । पुरम्-धिः । शम् । ओं इति । सन्तु । रायः । शम् । नः । सत्यस्य । सु-यमस्य । शंसः । शम् । नः । अर्यमा । पुरु-जातः । अस्तु

7.35.3

शम् । नः । धाता । शम् । ओं इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः । शम् । रोदसी इति । बृहती । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सु-हवानि । सन्तु

7.35.4

शम् । नः । अग्निः । ज्योतिः-अनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् । शम् । नः । सु-कृताम् । सु-कृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः

7.35.5

शम् । नः । द्यावापृथिवी इति । पूर्व-हूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु । शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः

7.35.6

॥28॥.
-र्व्_5:3।29-
शम् । नः । इन्द्रः । वसु-भिः । देवः । अस्तु । शम् । आआदित्येभिः । वरुणः । सु-शंसः । शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु

7.35.7

शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ओं इति । सन्तु । यज्ञाः । शम् । नः । स्वराऊणाम् । मितयः । भवन्तु । शम् । नः । प्र-स्वः । शम् । ओं इति । अस्तु । वेदिः

7.35.8

शम् । नः । सूर्यः । उरु-चक्षाः । उत् । एतु । शम् । नः । चतस्रः । प्र-दिशः । भवन्तु । शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ओं इति । सन्तु । आपः

7.35.9

शम् । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सु-अर्काः । शम् । नः । विष्णुः । शम् । ओं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ओं इति । अस्तु । वायुः

7.35.10

शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । वि-भातीः । शम् । नः । पर्जन्यः । भवतु । प्र-जाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शम्-भुः

7.35.11

॥29॥.
-र्व्_5:3।30-
शम् । नः । देवाः । विश्व-देवाः । भवन्तु । शम् । सरस्वती । सह । धीभिः । अस्तु । शम् । अभि-साचः । शम् । ओं इति । राति-साचः । शम् । नः । दिव्याः । पार्थिवाः । शम् । नः । अप्याः

7.35.12

शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ओं इति । सन्तु । गावः । शम् । नः । ऋभवः । सु-कृतः । सु-हस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु

7.35.13

शम् । नः । अजः । एक-पात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः । शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देव-गोपा

7.35.14

आदित्याः । रुद्राः । वसवः । जुषन्त । इदम् । ब्रह्म । क्रियमाणम् । नवीयः । शृण्वन्तु । नः । दिव्याः । पार्थिवासः । गो--जाताः । उत । ये । यज्ञियासः

7.35.15

ये । देवानाम् । यज्ञियाः । यज्ञियानाम् । मनोः । यजत्राः । अमृताः । ऋत-ज्ञाः । ते । नः । रासन्ताम् । उरु-गायम् । अद्य । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc