ऋग्वेदसंहिता, पदपाठ · अध्याय 7.32
॥16॥.
-र्व्_5:3।17-
(र्व्_7,32)
मो इति । सु । त्वा । वाघतः । चन । आरे । अस्मत् । नि । रीरमन् । आरात्तात् । चित् । सध-मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि
इमे । हि । ते । ब्रह्म-कृतः । सुते । सचा । मधौ । न । मक्षः । आसते । इन्द्रे । कामम् । जरितारः । वसु-यवः । रथे । न । पादम् । आ । दधुः
रायः-कामः । वज्र-हस्तम् । सु-दक्षिणम् । पुत्रः । न । पितरम् । हुवे
इमे । इन्द्राय । सुन्विरे । सोमासः । दधि-आशिरः । तान् । आ । मदाय । वज्र-हस्त । पीतये । हरि-भ्याम् । याहि । ओकः । आ
श्रवत् । श्रुत्-कर्णः । ईयते । वसूनाम् । नु । चित् । नः । मर्धिषत् । गिरः । सद्यः । चित् । यः । सहस्राणि । सता । ददत् । नकिः । दित्सन्तम् । आ । मिनत्
॥17॥.
-र्व्_5:3।18-
सः । वीरः । अप्रति-स्कुतः । इन्द्रेण । शूशुवे । नृ-भिः । यः । ते । गभीरा । सवनानि । वृत्र-हन् । सुनोति । आ । च । धावति
भव । वराऊथम् । मघ-वन् । मघोनाम् । यत् । सम्-अजासि । शर्धतः । वि । त्वाहतस्य । वेदनम् । भजेमहि । आ । दुः-नशः । भर । गयम्
सुनोत । सोम-पाव्ने । सोमम् । इन्द्राय । वज्रिणे । पचत्स् । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः
मा । स्रेधत । सोमिनः । दक्षत । महे । कृणुध्वम् । राये । आतुजे । तरणिः । इत् । जयति । क्षेति । पुष्यति । न । देवासः । कवत्नवे
नकिः । सु-दासः । रथम् । परि । आस । न । रीरमत् । इन्द्रः । यस्य । अविता । यस्य । मरुतः । गमत् । सः । गो--मति । व्रजे
॥18॥.
-र्व्_5:3।19-
गमत् । वाजम् । वाजयन् । इन्द्र । मर्त्यः । यस्य । त्वम् । अविता । भुवः । अस्माकम् । बोधि । अविता । रथानाम् । अस्माकम् । शूर । नृणाम्
उत् । इत् । नु । अस्य । रिच्यते । अंशः । धनम् । न । जिग्युषः । यः । इन्द्रः । हरि-वान् । न । दम्भन्ति । तम् । रिपः । दक्षम् । दधाति । सोमिनि
मन्त्रम् । अखर्वम् । सु-धितम् । सु-पेशसम् । दधात । यज्ञियेषु । आ । पूर्वीः । चन । प्र-सितयः । तरन्ति । तम् । यः । इन्द्रे । कर्मणा । भुवत्
कः । तम् । इन्द्र । त्वावसुम् । आ । मर्त्यः । दधर्षति । श्रद्धा । इत् । ते । मघ-वन् । पार्ये । दिवि । वाजी । वाजम् । सिसासति
मघोनः । स्म । वृत्र-हत्येषु । चोदय । ये । ददति । प्रिया । वसु । तव । प्र-नीती । हरि-अश्व । सूरि-भिः । विश्वा । तरेम । दुः-इता
॥19॥.
-र्व्_5:3।20-
तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् । सत्रा । विश्वस्य । परमस्य । राजसि । नकिः । त्वा । गोषु । वृण्वते
त्वम् । विश्वस्य । धन-दाः । असि । श्रुतः । ये । ईम् । भवन्ति । आजयः । तव । अयम् । विश्वः । पुरु-हूत । पार्थिवः । अवस्युः । नाम । भिक्षते
यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय । स्तोतारम् । इत् । दिधिषेय । रदवसो इतिरद-वसो । न । पाप-त्वाय । रासीय
शिक्षेयम् । इत् । मह-यते । दिवे--दिवे । रायः । आ । कुहचित्-विदे । नहि । त्वत् । अन्यत् । मघ-वन् । नः । आप्यम् । वस्यः । अस्ति । पिता । चन
तरणिः । इत् । सिसासति । वाजम् । पुरम्-ध्या । युजा । आ । वः । इन्द्रम् । पुरु-हूतम् । नमे । गिरा । नेमिम् । तष्टाइव । सु-द्रम्
॥20॥.
-र्व्_5:3।21-
न । दुः-स्तुती । मर्त्यः । विन्दते । वसु । न । स्रेधन्तम् । रयिः । नशत् । सु-शक्तिः । इत् । मघ-वन् । तुभ्यम् । मावते । देष्णम् । यत् । पार्ये । दिवि
अभि । त्वा । शूर । नोनुमः । अदुग्धाः-इव । धेनवः । ईशानम् । अस्य । जगतः । स्वः-दृशम् । ईशानम् । इन्द्र । तस्थुषः
न । त्वावान् । अन्यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते । अश्व-यन्तः । मघ-वन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे
अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः । पुरु-वसुः । हि । मघ-वन् । सनात् । असि । भरे--भरे । च । हव्यः
परा । नुदस्व । मघ-वन् । अमित्रान् । सु-वेदा । नः । वसु । कृधि । अस्माकम् । बोधि । अविता । महाधने । भव । वृधः । सखीनाम्
इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरु-हूत । यामनि । जीवाः । ज्योतिः । अशीमहि
मा । नः । अज्ञाताः । वृजनाः । दुः-आध्यः । मा । अशिवासः । अव । क्रमुः । त्वया । वयम् । प्र-वतः शश्वतीः । अपः । अति । शूर । तरामसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0