भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.33

7.33.1

॥21॥.
-र्व्_5:3।22-
(र्व्_7,33)
श्वित्यञ्चः । मा । दक्षिणतः-कपर्दाः । धियम्-जिन्वासः । अभि । हि । प्र-मन्दुः । उत्-तिष्ठन् । वोचे । परि । बर्हिषः । नॄन् । न । मे । दूरात् । अवितवे । वसिष्ठाः

7.33.2

दूरात् । इन्द्रम् । अनयन् । आ । सुतेन । तिरः । वैशन्तम् । अति । पान्तम् । उग्रम् । पाश-द्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान्

7.33.3

एव । इत् । नु । कम् । सिन्धुम् एभिः । ततार । एव । इत् । नु । कम् । भेदम् । एभिः । जघान । एव । इत् । नु । कम् । दाश-राज्ञे । सु-दासम् । प्र । आवत् । इन्द्रः । ब्रह्मणा । वः । वसिष्ठाः

7.33.4

जुष्टी । नरः । ब्रह्मणा । वः । पितॄणाम् । अक्षम् । अव्ययम् । न । किल । रिषाथ । यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः

7.33.5

उत् । द्याम्-इव । इत् । तृष्ण-जः । नाथितासः । अदीधयुः । दाश-राज्ञे । वृतासः । वस् इष्ठस्य । स्तुवतः । इन्द्रः । अश्रोत् । उरुम् । तृत्सु-भ्यः । अकृणोत् । ओं इति । लोकम्

7.33.6

॥22॥.
-र्व्_5:3।23-
दण्डाइव । इत् । गो--अजनासः । आसन् । परि-च्छिन्नाः । भरताः । अर्भकासः । अभवत् । च । पुरः-एता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त

7.33.7

त्रयः । कृण्वन्ति । भुवनेषु । रेतः । तिस्रः । प्र-जाः । आर्याः । ज्योतिः-अग्राः । त्रयः । घर्मासः । उषसम् । सचन्ते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः

7.33.8

सूर्यस्य-इव । वक्षथः । ज्योतिः । एषाम् । समुद्रस्य-इव । महिमा । गभीरः । वातस्य-इव । प्र-जवः । न । अन्येन । स्तोमः । वसिष्ठाः । अनु-एतवे । वः

7.33.9

ते । इत् । निण्यम् । हृदयस्य । प्र-केतैः । सहस्र-वल्शम् । अभि । सम् । चरन्त् इ । यमेन । ततम् । परि-धिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः

7.33.10

वि-द्युतः । ज्योतिः । परि । सम्-जिहानम् । मित्रावरुणा । यत् । अपश्यताम् । त्वा । तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आजभार

7.33.11

॥23॥.
-र्व्_5:3।24-
उत । असि । मैत्रावरुणः । वसिष्ठ । उर्वश्या । ब्रह्मन् । मनसः । अधि । जातः । द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त

7.33.12

सः । प्र-केतः । उभयस्य । प्र-विद्वान् । सहस्र-दानः । उत । वा । स-दानः । यमेन । ततम् । परि-धिम् । वयिष्यन् । अप्सरसः । परि । जज्ञे । वसिष्ठः

7.33.13

सत्रे । ह । जातौ । इषिता । नमः-भिः । कुम्भे । रेतः । सिसिचतुः । समानम् । ततः । ह । मानः । उत् । इयाय । मद्यात् । ततः । जातम् । ऋषिम् । आहुः । वसिष्ठम्

7.33.14

उक्थ-भृतम् । साम-भृतम् । बिभर्ति । ग्रावाणम् । बिभ्रत् । प्र । वदाति । अग्रे । उप । एनम् । आध्वम् । सु-मनस्यमानाः । आ । वः । गच्छाति । प्र-तृदः । वसिष्ठः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc