भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.31

7.31.1

॥14॥.
-र्व्_5:3।15-
(र्व्_7,31)
प्र । वः । इन्द्राय । मादनम् । हरि-अश्वाय । गायत । सखायः । सोम-पाव्ने

7.31.2

शंस । इत् । उक्थम् । सु-दानवे । उत । द्युक्षम् । यथा । नरः । चकृम । सत्य-राधसे

7.31.3

त्वम् । नः । इन्द्र । वाज-युः । त्वम् । गव्युः । शतक्रतो इतिशत-क्रतो । त्वम् । हिरण्य-युः । वसो इति

7.31.4

वयम् । इन्द्र । त्वायवः । अभि । प्र । नोनुमः । वृषन् । विद्धि । तु । अस्य । नः । वसो इति

7.31.5

मा । नः । निदे । च । वक्तवे । अर्यः । रन्धीः । अराव्णे । त्वे इति । अपि । क्रतुः । मम

7.31.6

त्वम् । वर्म । असि । स-प्रथः । पुरः-योधः । च । वृत्र-हन् । त्वया । प्रति । ब्रुवे । युजा

7.31.7

॥15॥.
-र्व्_5:3।16-
महान् । उत । असि । यस्य । ते । अनु । स्वधावरी इतिस्वधावरी । सहः । मम्नातेइति । इन्द्र । रोदसी इति

7.31.8

तम् । त्वा । मरुत्वती । परि । भुवत् । वाणी । स-यावरी । नक्षमाणा । सह । द्यु-भि ः

7.31.9

ऊर्ध्वासः । त्वा । अनु । इन्दवः । भुवन् । दस्मम् । उप । द्यवि । सम् । ते । नमन्त । कृष्टयः

7.31.10

प्र । वः । महे । महि-वृधे । भरध्वम् । प्र-चेतसे । प्र । सु-मतिम् । कृणुध्वम् । विशः । पूर्वीः । प्र । चर । चर्षणि-प्राः

7.31.11

उरु-व्यचसे । महिने । सु-वृक्तिम् । इन्द्राय । ब्रह्म । जनयन्त । विप्राः । तस्य । व्रतानि । न । मिनन्ति । धीराः

7.31.12

इन्द्रम् । वाणीः । अनुत्त-मन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै । हरि-अश्वाय । बर्हय । सम् । आपीन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc