ऋग्वेदसंहिता, पदपाठ · अध्याय 7.30
॥13॥.
-र्व्_5:3।14-
(र्व्_7,30)
आ । नः । देव । शवसा । याहि । शुष्मिन् । भव । वृधः । इन्द्र । रायः । अस्य । महे । नृम्णाय । नृ-पते । सु-वज्र । महि । क्षत्राय । पैंस्याय । शूर
हवन्ते । ओं इति । त्वा । हव्यम् । वि-वाचि । तनूषु । शूराः । सूर्यस्य । सातौ । त्वम् । विश्वेषु । सेन्यः । जनेषु । त्वम् । वृत्राणि । रन्धय । सु-हन्तु
अहा । यत् । इन्द्र । सु-दिना । वि-उच्छान् । दधः । यत् । केतुम् । उप-मम् । समत्-सु । नि । अग्निः । सीदत् । असुरः । न । होता । हुवानः । अत्र । सु-भगाय । देवान्
वयम् । ते । ते । इन्द्र । ये । च । देव । स्तवन्त । शूर । ददतः । मघानि । यच्छ । सूरि-भ्यः । उप-मम् । वरूथम् । सु-आभुवः । जरणाम् । अश्नवन्त
वोचेम । इत् । इन्द्रम् । मघ-वानम् । एनम् । महः । रयः । राधसः । यत् । ददत् । नः । यः । अर्चतः । ब्रह्म-कृतिम् । अविष्ठः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0