ऋग्वेदसंहिता, पदपाठ · अध्याय 7.29
॥12॥.
-र्व्_5:3।13-
(र्व्_7,29)
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । आ । तु । प्र । याहि । हरि-वः । तत्-ओकाः । पिब । तु । अस्य । सु-सुतस्य । चारोः । ददः । मघानि । मघ-वन् । इयानः
ब्रह्मन् । वीर । ब्रह्म-कृतिम् । जुषाणः । अर्वाचीनः । हरि-भिः । याहि । तूयम् । अस्मिन् । ओं इति । सु । सवने । मादयस्व । उप । ब्रह्माणि । शृणवः । इमा । नः
का । ते । अस्ति । अरम्-कृतिः । सु-उक्तैः । कदा । नूनम् । ते । मघ-वन् । दाशेम । विश्वाः । मतीः । आ । ततने । त्वाया । अध । मे । इन्द्र । शृणवः । हवा । इमा
उतो इति । घ । ते । पुरुष्याः । इत् । आसन् । येषाम् । पूर्वेषाम् । अशृणोः । ऋषीणाम् । अध । अहम् । त्वा । मघ-वन् । जोहवीमि । त्वम् । नः । इन्द्र । असि । प्र-मतिः । पिताइव
वोचेम । इत् । इन्द्रम् । मघ-वानम् । एनम् । महः । रयः । राधसः । यत् । ददत् । नः । यः । अर्चतः । ब्रह्म-कृतिम् । अविष्ठः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0