ऋग्वेदसंहिता, पदपाठ · अध्याय 7.2
॥27॥.
-र्व्_5:2।1-
(र्व्_7,2)
जुषस्व । नः । सम्-इधम् । अग्ने । अद्य । शोच । बृहत् । यजतम् । धूमम् । ऋण्वन् । उप । स्पृश । दिव्यम् । सानु । स्तूपैः । सम् । रश्मि-भिः । ततनः । सूर्यस्य
नराशंसस्य । महिमानम् । एषाम् । उप । स्तोषाम । यजतस्य । यज्ञैः । ये । सु-क्रतवः । शुचयः । धियम्-धाः । स्वदन्ति । देवाः । उभयानि । हव्या
ईळेन्यम् । वः । असुरम् । सु-दक्षम् । अन्तः । दूतम् । रोदसी
इति । सत्य-वाचम् । मनुष्वत् । अग्निम् । मनुना । सम्-इद्धम् । सम् । अध्वराय । सदम् । इत् । महेम
सपर्यवः । भरमाणाः । अभि-ज्ञु । प्र । वृञ्जते । नमसा । बर्हिः । अग्नौ । आजुह्वानाः । घृत-पृष्ठम् । पृषत्-वत् । अध्वर्यवः । हविषा । मर्जयध्वम्
सु-आध्यः । वि । दुरः । देव-यन्तः । अशिश्रयुः । रथ-युः । देव-ताता । पूर्वी इति । सिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन्
॥1॥.
-र्व्_5:2।2-
उत । योषणेइति । दिव्ये इति । मही इति । नः । उषसानक्ता । सुदुघाइव । धेनुः । बर्हि-सदा । पुरुहूते इतिपुरु-हूते । मघोनी इति । आ । यज्ञिये । सुविताय । श्रयेताम्
विप्रा । यज्ञेषु । मानुषेषु । कारू इति । मन्ये । वाम् । जात-वेदसा । यजध्यै । ऊर्ध्वम् । नः । अध्वरम् । कृतम् । हवेषु । ता । देवेषु । वनथः । वार्याणि
आ । भारती । भरतीभिः । स-जोषाः । इळा । देवैः । मनुष्येभिः । अग्निः । सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु
तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व । यतः । वीरः । कर्मण्यः । सु-दक्षः । युक्त-ग्रावा । जायते । देव-कामः
वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति । सः । इत् । ओं इति । होता । सत्य-तरः । यजाति । यथा । देवानाम् । जनिमानि । वेद
आ । याहि । अग्ने । सम्-इधानः । अर्वाङ् । इन्द्रेण । देवैः । स-रथम् । तुरेभिः । बर्हिः । नः । आस्ताम् । अदितिः । सु-पुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0