ऋग्वेदसंहिता, पदपाठ · अध्याय 7.26
॥9॥.
-र्व्_5:3।10-
(र्व्_7,26)
न । सोमः । इन्द्रम् । असुतः । ममाद । न । अब्रह्माणः । मघ-वानम् । सुतासः । तस्मै । उक्थम् । जनये । यत् । जुजोषत् । नृ-वत् । नवीयः । शृणवत् । यथा । नः
उक्थे--उक्थे । सोमः । इन्द्रम् । ममाद । नीथे--नीथे । मघ-वानम् । सुतासः । यत् । ईम् । स-बाधः । पितरम् । न । पुत्राः । समान-दक्षाः । अवसे । हवन्ते
चकार । ता । कृणवत् । नूनम् । अन्या । यानि । ब्रुवन्ति । वेधसः । सुतेषु । जनीः-इव । पतिः । एकः । समानः । नि । ममृजे । पुरः । इन्द्रः । सु । सर्वाः
एव । तम् । आहुः । उत । शृण्वे । इन्द्रः । एकः । वि-भक्ता । तरणिः । मघानाम् । मिथः-तुरः । ऊतयः । यस्य । पूर्वीः । अस्मे इति । भद्राणि । सश्चत । प्रियाणि
एव । वसिष्ठः । इन्द्रम् । ऊतये । नॄन् । कृष्टीनाम् । वृषभम् । सुते । गृणाति । सहस्र् इणः । उप । नः । माहि । वाजान् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0