भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.25

7.25.1

॥8॥.
-र्व्_5:3।9-
(र्व्_7,25)
आ । ते । महः । इन्द्र । ऊती । उग्र । स-मन्यवः । यत् । सम्-अरन्त । सेनाः । पताति । दिद्युत् । नर्यस्य । बाह्वोः । मा । ते । मनः । विष्वद्र्यक् । वि । चारीत्

7.25.2

नि । दुः-गे । इन्द्र । श्नथिहि । अमित्रान् । अभि । ये । नः । मर्तासः । अमन्ति । आरे । तम् । शंसम् । कृणुहि । निनित्सोः । आ । नः । भर । सम्-भरणम् । वसूनाम्

7.25.3

शतम् । ते । शिप्रिन् । ऊतयः । सु-दासे । सहस्रम् । शंसाः । उत । रातिः । अस्तु । जहि । वधः । वनुषः । मर्त्यस्य्स् । अस्मे इति । द्युम्नम् । अधि । रत्नम् । च । धेहि

7.25.4

त्वावतः । हि । इन्द्र । क्रत्वे । अस्मि । त्वावतः । अवितुः । शूर । रातौ । विश्वा । इत् । अहानि । तविषी-वः । उग्र । ओकः । कृणुष्व । हरि-वः । न । मर्धीः

7.25.5

कुत्सा । एते । हर्यि-अश्वाय । शूषम् । इन्द्रे । सहः । देव-जूतम् । इयानाः । सत्रा । कृधि । सु-हना । शूर । वृत्रा । वयम् । तरुत्राः । सनुयाम । वाजम्

7.25.6

एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सु-मतिम् । वेविदाम । इषम् । पिन्व । मघवत्-भ्यः । सु-वीराम् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc