ऋग्वेदसंहिता, पदपाठ · अध्याय 7.27
॥10॥.
-र्व्_5:3।11-
(र्व्_7,27)
इन्द्रम् । नरः । नेम-धिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः । शूरः । नृ-साता । शवसः । चकानः । आ । गोमति । व्रजे । भज । त्वम् । नः
यः । इन्द्र । शुष्मः । मघ-वन् । ते । अस्ति । शिक्ष । सखि-भ्यः । पुरु-हूत । नृ-भ्यः । त्वम् । हि । दृळ्हा । मघ-वन् । वि-चेताः । अप । वृधि । परि-वृतम् । न । राधः
इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमि । विषु-रूपम् । यत् । अस्ति । ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उप-स्तुतः । चित् । अर्वाक्
नु । चित् । नः । इन्द्रः । मघ-वा । स-हूती । दानः । वाजम् । नि । यमते । नः । ऊती । अनूना । यस्य । दक्षिणा । पीपाय । वामम् । नृ-भ्यः । अभि-वीता । सखि-भ्यः
नु । इन्द्र । राये । वरिवः । कृधि । नः । आ । ते । मनः । ववृत्याम । मघाय । गो--मत् । अश्व-वत् । रथ-वत् । व्यन्तः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0