ऋग्वेदसंहिता, पदपाठ · अध्याय 7.1
॥22॥.
मन्दल 7
-र्व्_5:1।23-
(र्व्_7,1)
अग्निम् । नरः । दीधिति-भिः । अरण्योः । हस्त-च्युती । जनयन्त । प्र-शस्तम् । दूरे--दृशम् । गृह-पतिम् । अथर्युम्
तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सु-प्रतिचक्षम् । अवसे । कुतः । चित् । दक्षाय्यः । यः । दमे । आस । नित्यः
प्र-इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः
प्र । ते । अग्नयः । अग्नि-भ्यः । वरम् । निः । सु-वीरासः । शोशुचन्त । द्यु-मन्तः । यत्र । नरः । सम्-आसते । सु-जाताः
दाः । नः । अग्ने । धिया । रयिम् । सु-वीरम् । सु-अपत्यम् । सहस्य । प्र-शस्तम् । न । यम् । यावा । तरति । यातु-मावान्
॥23॥.
-र्व्_5:1।24-
उप । यम् । एति । युवतिः । सु-दक्षम् । दोषा । वस्तोः । हविष्मती । घृताची । उप । स्वा । एनम् । अरमतिः । वसु-युः
विश्वाः । अग्ने । अप । दह । अरातीः । येभिः । तपः-भिः । अदहः । जरूथम् । प्र । नि-स्वरम् । चातयस्व । अमीवाम्
आ । यः । ते । अग्ने । इधते । अनीकम् । वसिष्ठ । शुक्र । दीदि-वः । पावक । उतो इति । नः । एभिः । स्तवथैः । इह । स्याः
वि । ये । ते । अग्ने । भेजिरे । अनीकम् । मर्ताः । नरः । पित्र्यासः । पुरु-त्रा । उतो इति । नः । एभिः । सु-मनाः । इह । स्याः
इमे । नरः । वृत्र-हत्येषु । शूराः । विश्वाः । अदेवीः । अभि । सन्तु । मायाः । ये । मे । धियम् । पनयन्त । प्र-शस्ताम्
॥24॥.
-र्व्_5:1।25-
मा । शूने । अग्ने । नि । सदाम । नृणाम् । मा । अशेषसः । अवीरता । परि । त्वा । प्रजावतीषु । दुर्यासु । दुर्य
यम् । अश्वी । नित्यम् । उप-याति । यज्ञम् । प्रजावन्तम् । सु-अपत्यम् । क्षयम् । नः । स्व-जन्मना । शेषसा । ववृधानम्
पाहि । नः । अग्ने । रक्षसः । अजुष्टात् । पाहि । धूर्तेः । अररुषः । अघ-योः । त्वा । युजा । पृतनायून् । अभि । स्याम्
सः । इत् । अग्निः । अग्नीन् । अति । अस्तु । अन्यान् । यत्र । वाजी । तनयः । वीळु-पाणिः । सहस्र-पाथाः । अक्षरा । सम्-एति
सः । इत् । अग्निः । यः । वनुष्यतः । नि-पाति । सम्-एद्धारम् । अंहसः । उरुष्यात् । सु-जातासः । परि । चरन्ति । वीराः
॥25॥.
-र्व्_5:1।26-
अयम् । सः । अग्निः । आहुतः । पुरु-त्रा । यम् । ईशानः । सम् । इत् । इन्धे । हविष्मान् । परि । यम् । एति । अध्वरेषु । होता
त्वे इति । अग्ने । आहवनानि । भूरि । ईशानासः । आ । जुहुयाम । नित्या । उभा । कृण्वन्तः । वहतू इति । मियेधे
इमो इति । अग्ने । वीत-तमानि । हव्या । अजस्रः । वक्षि । देव-तातिम् । इच्छ । प्रति । नः । ईम् । सुरभीणि । व्यन्तु
मा । नः । अग्ने । अवीरते । परा । दा । दुः-वाससे । अमतये । मा । नः । अस्यै । मा । नः । क्षुधे । मा । रक्षसे । ऋत-वः । मा । नः । दमे । मा । वने । आ । जुहूर्थाः
नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्-भ्यः । सुसूदः । रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्ति-भिः । सदा । नः
॥26॥.
-र्व्_5:1।27-
त्वम् । अग्ने । सु-हवः । रण्व-सन्दृक् । सु-दीती । सूनो इति । सहसः । दिदीहि । मा । त्वे इति । सचा । तनये । नित्ये । आ । धक् । मा । वीरः । अस्मत् । नर्यः । वि । दासीत्
मा । नः । अग्ने । दुः-भृतये । सचा । एषु । देव-इद्धेषु । अग्निषु । प्र । वोचः । मा । ते । अस्मान् । दुः-मतयः । भृमात् । चित् । देवस्य । सूनो इति । सहसः । नशन्त
सः । मर्तः । अग्ने । सु-अनीक । रेवान् । अमर्त्ये । यः । आजुहोति । हव्यम् । सः । देवता । वसु-वनिम् । दधाति । यम् । सूरिः । अर्थी । पृच्छमानः । एति
महः । नः । अग्ने । सुवितस्य । विद्वान् । रयिम् । सूरि-भ्यः । आ । वह । बृहन्तम् । येन । वयम् । सहसावन् । मदेम । अवि-क्षितासः । आयुषा । सु-वीराः
नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्-भ्यः । सुसूदः । रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0