ऋग्वेदसंहिता, पदपाठ · अध्याय 7.19
॥28॥.
-र्व्_5:2।29-
(र्व्_7,19)
यः । तिग्म-शृङ्गः । वृषभः । न । भीमः । एकः । कृष्टीः । च्यवयति । प्र । विश्वाः । यः । शश्वतः । अदाशुषः । गयस्य । प्र-यन्ता । असि । सुस्वि-तराय । वेदः
त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आवः । शुश्रूषमाणः । तन्वा । स-मर्ये । दासम् । यत् शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन्
त्वम् । धृष्णो इति । धृषता । वीत-हव्यम् । प्र । आवः । विश्वाभिः । ऊति-भिः । सु-दासम् । प्र । पौरु-कुत्सिम् । त्रसदस्युम् । आवः । क्षेत्र-साता । वृत्र-हत्येषु । पूरुम्
त्वम् । नृ-भिः । नृ-मनः । देव-वीतौ । भूरीणि । वृत्रा । हरि-अश्व । हंसि । त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापयः । दभीतये । सु-हन्तु
तव । च्यौत्नानि । वज्र-हस्त । तानि । नव । यत् । पुरः । नवतिम् । च । सद्यः । नि-वेशने । शत-तमा । अविवेषीः । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन्
॥29॥.
-र्व्_5:2।30-
सना । ता । ते । इन्द्र । भोजनानि । रात-हव्याय । दाशुषे । सु-दासे । वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरु-शाक । वाजम्
मा । ते । अस्याम् । सहसावन् । परिष्टौ । अघाय । भूम । हरि-वः । परादै । त्रायस्व । नः । अवृकेभिः । वरूथैः । तव । प्रियासः । सूरिषु । स्याम
प्रियासः । इत् । ते । मघ-वन् । अभिष्टौ । नरः । मदेम । शरणे । सखायः । नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथि-ग्वाय । शंस्यम् । करिष्यन्
सद्यः । चित् । नु । ते । मघ-वन् । अभिष्टौ । नरः । शंसन्ति । उक्थ-शसः । उक्था । ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै
एते । स्तोमाः । नराम् । नृ-तम । तुभ्यम् । अस्मद्र्यञ्चः । ददतः । मघानि । तेषाम् । इन्द्र । वृत्र-हत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम्
नु । इन्द्र । शूर । स्तवमानः । ऊती । ब्रह्म-जूतः । तन्वा । ववृधस्व । उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0