ऋग्वेदसंहिता, पदपाठ · अध्याय 7.18
॥23॥.
-र्व्_5:2।24-
(र्व्_7,18)
त्वे इति । ह । यत् । पितरः । चित् । नः । इन्द्र । विश्वा । वामा । जरितारः । असन्वन् । त्वे इति । गावः । सु-दुघाः । त्वे इति । हि । अश्वाः । त्वम् । वसु । देव-यते । वनिष्ठः
राजाइव । हि । जनि-भिः । क्षेषि । एव । अव । द्यु-भिः । अभि । विदुः । कविः । सन् । पिशा । गिरः । मघ-वन् । गोभिः । अश्वैः । त्वायतः । शिशीहिःरायेःअस्मान्
इमाः । ओं इति । त्वा । पस्पृधानासः । अत्र । मन्द्राः । गिरः । देव-यन्तीः । उप । स्थुः । अर्वाची । ते । पथ्या । रायः । एतु । स्याम । ते । सु-मतौ । इन्द्र । शर्मन्
धेनुम् । न । त्वा । सु-यवसे । दुधुक्षन् । उप । ब्रह्माणि । ससृजे । वसिष्ठः । त्वाम् । इत् । मे । गो--पतिम् । विश्वः । आह । आ । नः । इन्द्रः । सु-मतिम् । गन्तु । अच्छ
अर्णांसि । चित् । पप्रथाना । सु-दासे । इन्द्रः । गाधानि । अकृणोत् । सु-पारा । शर्धन्तम् । शिम्युम् । उचथस्य । नव्यः । शापम् । सिन्धूनाम् । अकृणोत् । अशस्तीः
॥24॥.
-र्व्_5:2।25-
पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । नि-शिताः । अपि-इव । श्रुष्टिम् । चक्रुः । भृगवः । द्रुह्यवः । च । सखा । सखायम् । अतरत् । विषूचोः
आ । पक्थासः । भलानसः । भनन्त । आ । अलिनासः । विषाणिनः । शिवासः । आ । यः । अनयत् । सध-माः । आर्यस्य । गव्या । तृत्सु-भ्यः । अजगन् । युधा । नॄन्
दुरोध्यः । अदितिम् । स्रेवयन्तः । अचेतसः । वि । जगृभ्रे । परूष्णीम् । मह्ना । अविव्यक् । पृथिवीम् । पत्यमानः । पशुः । कविः । अशयत् । चायमानः
ईयुः । अर्थम् । न । नि-अर्थम् । परुष्णीम् । आशुः । चन । इत् । आभि-पित्वम् । जगाम । सु-दासे । इन्द्रः । सु-तुकान् । अमित्रान् । अरन्धयत् । मानुषे । वध्रि-वाचः
ईयुः । गावः । न । यवसात् । अगोपाः । यथाकृतम् । अभि । मित्रम् । चितासः । पृश्नि-गावः । पृश्नि-निप्रेषितासः । श्रुष्टिम् । चक्रुः । नि-युतः । रन्तयः । च
॥25॥.
-र्व्_5:2।26-
एकम् । च । यः । विंशतिम् । च । श्रवस्या । वैकर्णयोः । जनान् । राजा । नि । अस्तः । दस्मः । न । सद्मन् । नि । शिशाति । बर्हिः । शूरः । सर्गम् । अकृणोत् । इन्द्रः । एषाम्
अध । श्रुतम् । कवषम् । वृद्धम् । अप्-सु । अनु । द्रुह्युम् । नि । वृणक् । वज्र-बाहुः । वृणानाः । अत्र । सख्याय । सख्यम् । त्वायन्तः । ये । अमदन् । अनु । त्वा
वि । सद्यः । विश्वा । दृंहितानि । एषाम् । इन्द्रः । पुरः । सहसा । सप्त । दर्दः । वि । आनवस्य । तृत्सवे । गयम् । भाक् । जेष्म । पूरुम् । विदथे । मृध्र-वाचम्
न् । गव्यवः । अनवः । दुह्यवः । च । षष्टिः । शता । सुसुपुः । षट् । सहस्रा । षष्टिः । वीरासः । अधि । षट् । दुवः-यु । विश्वा । इत् । इन्द्रस्य । वीर्या । कृतान् इ
इन्द्रेण । एते । तृत्सवः । वेविषाणाः । आपः । न । सृष्टाः । अधवन्त । नीचीः । दुः-मित्रासः । प्रकल-वित् । मिमानाः । जहुः । विश्वानि । भोजना । सु-दासे
॥26॥.
-र्व्_5:2।27-
अर्धम् । वीरस्य । शृत-पाम् । अनिन्द्रम् । परा । शर्धन्तम् । नुनुदे । अभि । क्षाम् । इन्द्रः । मन्युम् । मनु-म्यः । मिमाय । भेजे । पथः । वर्तनिम् । पत्यमानः
आध्रेण । चित् । तत् । ओं इति । एकम् । चकार । सिंह्यम् । चित् । पेत्वेन । जघान । अव । स्रक्तीः । वेश्या । अवृश्चत् । इन्द्रः । प्र । अयच्छत् । विश्वा । भोजना । सु-दासे
शश्वन्तः । हि । शत्रवः । ररधुः । ते । भेदस्य । चित् । शर्धतः । विन्द । रन्धिम् । मर्तान् । एनः । स्तुवतः । यः । कृणोति । तिग्मम् । तस्मिन् । नि । जहि । वज्रम् । इन्द्र
आवत् । इन्द्रम् । यमुना । तृत्सवः । च । प्र । अत्र । भेदम् । सर्व-ताता । मुषायत् । अजासः । च । शिग्रवः । यक्षवः । च । बलिम् । शीर्षाणि । जभ्रुः । अश्व्यानि
न । ते । इन्द्र । सु-मतयः । न । रायः । सम्-चक्षे । पूर्वाः । उषसः । न । नूत्नाः । देवकम् । चित् । मान्यमानम् । जघन्थ । अव । त्मना । बृहतः । शम्बरम् । भेत्
॥27॥.
-र्व्_5:2।28-
प्र । ये । गृहात् । अममदुः । त्वाया । पराशरः । शत-यातुः । वसिष्ठः । न । ते । भोजस्य । सख्यम् । मृषन्त । अध । सूरि-भ्यः । सु-दिना । वि । उच्छान्
द्वे इति । नप्तुः । देव-वतः । शते इति । गोः । द्वा । रथा । वधू-मन्ता । सु-दासः । अर्हन् । अग्ने । पैज-वनस्य । दानम् । होताइव । सद्म । परि । एभि । रेभन्
चत्वारः । मा । पैज-वनस्य । दानाः । स्मत्-दिष्टयः । कृशनिनः । निरेके । ऋज्रासः । मा । पृथिवि-स्थाः । सु-दासः । तोकम् । तोकाय । श्रवसे । वहन्ति
यस्य । श्रवः । रोदसी इति । अन्तः । उर्वी इति । शीर्ष्णे--शीर्ष्णे । वि-बभाज । वि-भक्ता । सप्त । इत् । इन्द्रम् । न । स्रवतः । गृणन्ति । नि । युध्यामधिम् । आशिशात् । अभीके
इमम् । नरः । मरुतः । सश्चत । अनु । दिवः-दासम् । न । पितरम् । सु-दासः । अविष्टन । पैज-वनस्य । केतम् । दुः-नाशम् । क्षत्रम् । अजरम् । दुवः-यु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0