भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.20

7.20.1

॥30॥.
-र्व्_5:3।1-
(र्व्_7,20)
उग्रः । जज्ञे । वीर्याय । स्वधावान् । चक्रिः । अपः । नर्यः । यत् । करिष्यन् । जग्मिः । युवा । नृ-सदनम् । अवः-भिः । त्राता । नः । इन्द्रः । एनसः । महः । चित्

7.20.2

हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती । कर्ता । सु-दासे । अह । वै । ओं इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत्

7.20.3

युध्मः । अनर्वा । खज-कृत् । समत्-वा । शूरः । सत्राषाट् । जनुषा । ईम् । अषाळ्हः । वि । आसे । इन्द्रः । पृतनाः । सु-ओजाः । अध । विश्वम् । शत्रु-यन्तम् । जघान

7.20.4

उभे इति । चित् । इन्द्र । रोदसी इति । महि-त्वा । पप्राथ । तविषीभिः । तुविष्मः । नि । वज्रम् । इन्द्रः । हरि-वान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच

7.20.5

वृषा । जजान । वृषणम् । रणाय । तम् । ओं इति । चित् । नारी । नर्यम् । ससूव । प्र । यः । सेनानीः । अध । नृ-भ्यः । अस्ति । इनः । सत्वा । गो--एषणः । सः । धृष्णुः

7.20.6

॥1॥.
-र्व्_5:3।2-
नु । चित् । सः । भ्रेषते । जनः । न । रेषत् । मनः । यः । अस्य । घोरम् । आविवासात् । यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋत-पाः । ऋते--जाः

7.20.7

यत् । इन्द्र । पूर्वः । अपराय । शिक्षन् । अयत् । ज्यायान् । कनीयसः । देष्णम् । अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः

7.20.8

यः । ते । इन्द्र । प्रियः । जनः । ददाशत् । असत् । निरेके । अद्रि-वः । सखा । ते । वयम् । ते । अस्याम् । सु-मतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृ-पीतौ

7.20.9

एषः । स्तोमः । अचिक्रदत् । वृषा । ते । उत । स्तामुः । मघ-वन् । अक्रपिष्ट । रायः । कामः । जरितारम् । ते । आ । अगन् । त्वम् । अङ्ग । शक्र । वस्वः । आ । शकः । नः

7.20.10

सः । नः । इन्द्र । त्व-यतायै । इषे । धाः । त्मना । च । ये । मघ-वानः । जुनन्ति । वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc