ऋग्वेदसंहिता, पदपाठ · अध्याय 7.17
॥22॥.
-र्व्_5:2।23-
(र्व्_7,17)
अग्ने । भव । सु-समिधा । सम्-इद्धः । उत । बर्हिः । उर्विया । वि । स्तृणीताम्
उत । द्वारः । उशतीः । वि । श्रयन्ताम् । उत । देवान् । उशतः । आ । वह । इह
अग्ने । वीहि । हविषा । यक्षि । देवान् । सु-अध्वरा । कृणुहि । जात-वेदः
सु-अध्वरा । करति । जात-वेदाः । यक्षत् । देवान् । अमृतान् । पिप्रयत् । च
वंस्व । विश्वा । वार्याणि । प्रचेतैतिप्र-चेतः । सत्याः । भवन्तु । आशिषः । नः । अद्य
त्वाम् । ओं इति । ते । दधिरे । हव्य-वाहम् । देवासः । अग्ने । ऊर्जः । आ । नपातम्
ते । ते । देवाय । दाशतः । स्याम । महः । नः । रत्ना । वि । दधः । इयानः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0