ऋग्वेदसंहिता, पदपाठ · अध्याय 7.16
॥20॥.
-र्व्_5:2।21-
(र्व्_7,16)
एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे । प्रियम् । चेतिष्ठम् । अरतिम् । सु-अध्वरम् । विश्वस्य । दूतम् । अमृतम्
सः । योजते । अरुषा । विश्व-भोजसा । सः । दुद्रवत् । सु-आहुतः । सु-ब्रह्मा । यज्ञः । सु-शमी । वसूनाम् । देवम् । राधः । जनानाम्
उत् । अस्य । शोचिः । अस्थात् । आजुह्वानस्य । मीळ्हुषः । उत् । धूमासः । अरुषासः । द् इवि-स्पृशः । सम् । अग्निम् । इन्धते । नरः
तम् । त्वा । दुतम् । कृण्महे । यशः-तमम् । देवान् । आ । वीतये । वह । विश्वा । सूनो इति । सहसः । मर्त-भोजना । रास्व । तत् । यत् । त्वा । ईमहे
त्वम् । अग्ने । गृह-पतिः । त्वम् । होता । नः । अध्वरे । त्वम् । पोता । विश्व-वार । प्र-चेताः । यक्षि । वेषि । च । वार्यम्
कृधि । रत्नम् । यजमानाय । सुक्रतो इतिसु-क्रतो । त्वम् । हि । रत्न-धाः । असि । आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सु-शंसः । यः । च । दक्षते
॥21॥.
-र्व्_5:2।22-
त्वे इति । अग्ने । सु-आहुत । प्रियासः । सन्तु । सूरयः । यन्तारः । ये । मघ-वानः । जनानाम् । ऊर्वान् । दयन्त । गोनाम्
येषाम् । इळा । घृत-हस्ता । दुरोणे । आ । अपि । प्राता । नि-सीदति । तान् । त्रायस्व । सहस्य । द्रुहः । निदः । यच्छ । नः । शर्म । दीर्घ-श्रुत्
सः । मन्द्रया । च । जिह्वया । वह्निः । आसा । विदुः-तरः । अग्ने । रयिम् । मघवत्-भ्यः । नः । आ । वह । हव्य-दातिम् । च । सूदय
ये । राधांसि । ददति । अश्व्या । मघा । कामेन । श्रवसः । महः । तान् । अंहसः । पिपृहि । पर्तृ-भिः । त्वम् । शतम् । पूः-भिः । यविष्ठ्य
देवः । वः । द्रविणः-दाः । पूर्णाम् । विवष्टि । आसिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते
तम् । होतारम् । अध्वरस्य । प्र-चेतसम् । वह्निम् । देवाः । अकृण्वत । दधाति । रत्नम् । विधते । सु-वीर्यम् । अग्निः । जनाय । दाशुषे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0