भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.15

7.15.1

॥17॥.
-र्व्_5:2।18-
(र्व्_7,15)
उप-सद्याय । मीळ्हुषे । आस्ये । जुहुत । हविः । यः । नः । नेदिष्ठम् । आप्यम्

7.15.2

यः । पञ्च । चर्षणीः । अभि । नि-ससाद । दमे--दमे । कविः । गृह-पतिः । युवा

7.15.3

सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । विश्वतः । उत । अस्मान् । पातु । अंहसः

7.15.4

नवम् । नु । स्तोमम् । अग्नये । दिवः । श्येनाय । जीजनम् । वस्वः । कुवित् । वनाति । नः

7.15.5

स्पार्हा । यस्य । श्रियः । दृशे । रयिः । वीर-वतः । यथा । अग्रे । यज्ञस्य । शोचतः

7.15.6

॥18॥.
-र्व्_5:2।19-
सः । इमाम् । वेतु । वषट्-कृतिम् । अग्निः । जुषत । नः । गिरः । यजिष्ठः । हव्य-वाहनः

7.15.7

नि । त्वा । नक्ष्य । विश्पते । द्यु-मन्तम् । देव । धीमहि । सु-वीरम् । अग्ने । आहुत

7.15.8

क्षपः । उस्रः । च । दीदिहि । सु-अग्नयः । त्वया । वयम् । सु-वीरः । त्वम् । अस्म-युः

7.15.9

उप । त्वा । सातये । नरः । विप्रासः । यन्ति । धीति-भिः । उप । अक्षरा । सहस्र् इणी

7.15.10

अग्निः । रक्षांसि । सेधति । शुक्र-शोचिः । अमर्त्यः । शुचिः । पावकः । ईड्यः

7.15.11

॥19॥.
-र्व्_5:2।20-
सः । नः । राधांसि । आ । भर । ईशानः । सहसः । यहो इति । भगः । च । दातु । वार्यम्

7.15.12

त्वम् । अग्ने । वीर-वत् । यशः । देवः । च । सविता । भगः । दितिः । च । दाति । वायर्म्

7.15.13

अग्ने । रक्ष । नः । अंहसः । प्रति । स्म । देव । रिषतः । तपिष्ठैः । अजरः । दह

7.15.14

अग्ने । मही । नः । आयसी । अनाधृष्टः । नृ-पीतये । पूः । भव । शत-भुजिः

7.15.15

त्वम् । नः । पाहि । अंहसः । दोषावस्तः । अघ-यतः । दिवा । नक्तम् । अदाभ्य

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc