ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 7.14
7.14.1
॥16॥.
-र्व्_5:2।17-
(र्व्_7,14)
सम्-इधा । जात-वेदसे । देवाय । देव-हूतिभिः । हविः-भिः । शुक्र-शोचिषे । नमस्विनः । वयम् । दाशेम । अग्नये
7.14.2
वयम् । ते । अग्ने । सम्-इधा । विधेम । वयम् । दाशेम । सु-स्तुती । यजत्र । वयम् । घृतेन । अध्वरस्य । होतः । वयम् । देव । हविषा । भद्र-शोचे
7.14.3
आ । नः । देवेभिः । उप । देव-हूतिम् । अग्ने । याहि । वषट्-कृतिम् । जुषाणः । तुभ्यम् । देवाय । दाशतः । स्याम । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0