ऋग्वेदसंहिता, पदपाठ · अध्याय 7.103
॥2॥.
-र्व्_5:7।3-
(र्व्_7,103)
संवत्सरम् । शशयानाः । ब्राह्मणाः । व्रत-चारिणः । वाचम् । पर्जन्य-जिन्विताम् । प्र । मण्डूकाः । अवादिषुः
दिव्याः । आपः । अभि । यत् । एनम् । आयन् । दृतिम् । न । शुष्कम् । सरसी इति । शयानम् । गवाम् । अह । न । मायुः । वत्सिनीनाम् । मण्डूकानाम् । वग्नुः । अत्र । सम् । एति
यत् । ईम् । एनान् । उशतः । अभि । अवर्षीत् । तृष्यावतः । प्रावृषि । आगतायाम् । अख्खलीकृत्य । पितरम् । न । पुत्रः । अन्यः । अन्यम् । उप । वदन्तम् । एति
अन्यः । अन्यम् । अनु । गृभ्णाति । एनोः । अपाम् । प्र-सर्गे । यत् । अमन्दिषाताम् । मण्डूकः । यत् । अभि-वृष्टः । कनिस्कन् । पृश्निः । सम्-पृङ्क्ते । हरितेन । वाचम्
यत् । एषाम् । अन्यः । अन्यस्य । वाचम् । शाक्तस्य-इव । वदति । शिक्षमाणः । सर्वम् । तत् । एषाम् । समृधाइव । पर्व । यत् । सु-वाचः । वदथन । अधि । अप्-सु
॥3॥.
-र्व्_5:7।4-
गो--मायुः । एकः । अज-मायुः । एकः । पृश्निः । एकः । हरितः । एकः । एषाम् । समानम् । नाम । बिभ्रतः । वि-रूपाः । पुरु-त्र । वाचम् । पिपिशुः । वदन्तः
ब्राह्मणासः । अति-रात्रे । न । सोमे । सरः । न । पूर्णम् । अभितः । वदन्तः । संवत्सरस्य । तत् । अहरिति । परि । स्थ । यत् । मण्डूकाः । प्रावृषीणम् । बभूव
ब्राह्मणासः । सोमिनः । वाचम् । अक्रत । ब्रह्म । कृण्वन्तः । परिवत्सरीणम् । अध्वर्यवः । घर्मिणः । सिस्विदानाः । आविः । भवन्ति । गुह्याः । न । के । च् इत्
देव-हितिम् । जुगुपुः । द्वादशस्य । ऋतुम् । नरः । न । प्र । मिनन्ति । एते । संवत्सरे । प्रावृषि । आगतायाम् । तप्ताः । घर्माः । अश्नुवते । वि-सर्गम्
गो--मायुः । अदात् । अज-मायुः । अदात् । पृश्निः । अदात् । हरितः । नः । वसूनि । गवाम् । मण्डूकाः । ददतः । शतानि । सहस्र-सावे । प्र । तिरन्ते । आयुः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0