ऋग्वेदसंहिता, पदपाठ · अध्याय 7.11
॥13॥.
-र्व्_5:2।14-
(र्व्_7,11)
महान् । असि । अध्वरस्य । प्र-केतः । न । ऋते । त्वत् । अमृताः । मादयन्ते । आ । व् इश्वेभिः । सरथम् । याहि । देवैः । नि । अग्ने । होता । प्रथमः । सद । इह
त्वाम् । ईळते । अजिरम् । दूत्याय । हविष्मन्तः । सदम् । इत् । मानुषासः । यस्य । देवैः । आ । असदः । बर्हिः । अग्ने । अहानि । अस्मै । सु-दिना । भवन्ति
त्रिः । चित् । अक्तोः । प्र । चिकितुः । वसूनि । त्वे इति । अन्तः । दाशुषे । मर्त्याय । मनुष्वत् । अग्ने । इह । यक्षि । देवान् । भव । नः । दूतः । अभिशस्ति-पावा
अग्निः । ईशे । बृहतः । अध्वरस्य । अग्निः । विश्वस्य । हविषः । कृतस्य । क्रतुम् । हि । अस्य । वसवः । जुषन्त । अथ । देवाः । दधिरे । हव्य-वाहम्
आ । अग्ने । वह । हविः-अद्याय । देवान् । इन्द्र-ज्येष्ठासः । इह । मादयन्ताम् । इमम् । यज्ञम् । दिवि । देवेषु । धेहि । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0