ऋग्वेदसंहिता, पदपाठ · अध्याय 6.75
॥18॥.
-र्व्_5:1।19-
(र्व्_6,75)
जीमूतस्य-इव । भवति । प्रतीकम् । यत् । वर्मी । याति । स-मदाम् । उप-स्थे । अनाविद्धया । तन्वा । जय । त्वम् । सः । त्वा । वर्मणः । महिमा । पिपर्तु
धन्वना । गाः । धन्वना । आजिम् । जयेम । धन्वना । तीव्राः । स-मदः । जयेम । धनुः । शत्रोः । अप-कामम् । कृणोति । धन्वना । सर्वाः । प्र-दिशः । जयेम
वक्ष्यन्ती-इव । इत् । आ । गनीगन्ति । कर्णम् । प्रियम् । सखायम् । परि-सस्वजाना । योषाइव । शिङ्क्ते । वि-तता । अधि । धन्वन् । ज्या । इयम् । समने । पारयन्ती
ते इति । आचरन्ती इत्य् आचरन्ती । समनाइव । योषा । माताइव । पुत्रम् । बिभृताम् । उप-स्थे । अप । शत्रून् । विध्यताम् । संविदाने इतिसम्-विदाने । आत्नीरिति । इमे इति । विस्फुरन्ती इतिवि-स्फुरन्ती । अमित्रान्
बह्वीनाम् । पिता । बहुरस्य । पुत्रः । चिश्चा । कृणोति । समना । अव-गत्य । इषु-धिः । सङ्काः । पृतनाः । च । सर्वाः । पृष्ठे । नि-नद्धः । जयति । प्र-सूतः
॥19॥.
-र्व्_5:1।20-
रथे । तिष्ठन् । नयति । वाजिनः । पुरः । यत्र-यत्र । कामयते । सु-सारथिः । अभीशूनाम् । महिमानम् । पनायत । मनः । पश्चात् । अनु । यच्छन्ति । रश्मयः
तीव्रान् । घोषान् । कृण्वते । वृष-पाणयः । अश्वाः । रथेभिः । सह । वाजयन्तः । अव-क्रामन्तः । प्र-पदैः । अमित्रान् । क्षिणन्ति । शत्रून् । अनप-व्ययन्तः
रथ-वाहनम् । हविः । अस्य । नाम । यत्र । आयुधम् । नि-हितम् । अस्य । वर्म । तत्र । रथम् । उप । शग्मम् । सदेम । विश्वाहा । वयम् । सु-मनस्यमानाः
स्वादु-संसदः । पितरः । वयः-धाः । कृच्छ्र-श्रितः । शक्ति-वन्तः । गभीराः । चित्र-सेनाः । इषु-बलाः । अमृध्राः । सतः-वीराः । उरवः । व्रात-सहाः
ब्राह्मणासः । पितरः । सोम्यासः । शिवे इति । नः । द्यावापृथिवी इति । अनेहसा । पूषा । नः । पातु । दुः-इतात् । ऋत-वृधः । रक्ष । माकिः । नः । अघ-शंसः । ईशत
॥20॥.
-र्व्_5:1।21-
सु-पर्णम् । वस्ते । मृगः । अस्याः । दन्तः । गोभिः । सम्-नद्धा । पतति । प्र-सूता । यत्र । नरः । सम् । च । वि । च । द्रवन्ति । तत्र । अस्मभ्यम् । इषवः । शर्म । यंसन्
ऋजीते । परि । वृङ्धि । नः । अश्मा । भवतु । नः । तनूः । सोमः । अधि । ब्रवीतु । नः । अदितिः । शर्म । यच्छतु
आ । जङ्घन्ति । सानु । एषाम् । जघनान् । उप । जिघ्नते । अश्व-अजनि । प्र-चेतसः । अश्वान् । समत्-सु । चोदय
अहिः-इव । भोगैः । परि । एति । बाहुम् । ज्यायाः । हेतिम् । परि-बाधमानः । हस्त-घ्नः । विश्वा । वयुनानि । विद्वान् । पुमान् । पुमांसम् । परि । पातु । विश्वतः
आल-अक्ता । या । रुरु-शीर्ष्णी । अथो इति । यस्याः । अयः । मुखम् । इदम् । पर्जन्य-रेतसे । इष्वै । देव्यै । बृहत् । नमः
॥21॥.
-र्व्_5:1।22-
अव-सृष्टा । परा । पत । शरव्ये । ब्रह्म-संशिते । गच्छ । अमित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । चन । उत् । शिषः
यत्र । बाणाः । सम्-पतन्ति । कुमाराः । विशिखाः-इव । तत्र । नः । ब्रह्मणः । पतिः । अदितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु
मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु
यः । नः । स्वः । अरणः । यः । च । निष्ट्यः । जिघांसति । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0