ऋग्वेदसंहिता, पदपाठ · अध्याय 6.8
॥9॥.
-र्व्_4:5।10-
(र्व्_6,8)
पृक्षस्य । वृष्णः । अरुषस्य । नु । सहः । प्र । नु । वोचम् । विदथा । जात-वेदसः । वैश्वानराय । मतिः । नव्यसी । शुचिः । सोमः-इव । पवते । चारुः । अग्नये
सः । जायमानः । परमे । वि-ओमनि । व्रतानि । अग्निः । व्रत-पाः । अरक्षत । वि । अन्तरिक्षम् । अमिमीत । सु-क्रतुः । वैश्वानरः । महिना । नाकम् । अस्पृशत्
वि । अस्तभ्नात् । रोदसी इति । मित्रः । अद्भुतः । अन्तः-वावत् । अकृणोत् । ज्योतिषा । तमः । वि । चर्मणीइवेत् इचर्मणी-इव । धिषणेइति । अवर्तयत् । वैश्वानरः । विश्वम् । अधत्त । वृष्ण्यम्
अपाम् । उप-स्थे । महिषाः । अगृभ्णत । विशः । राजानम् । उप । तस्थुः । ऋग्मियम् । आ । दूतः । अग्निम् । अभरत् । विवस्वतः । वैश्वानरम् । मातरिश्वा । परावतः
युगे--युगे । विदथ्यम् । गृणत्-भ्यः । अग्ने । रयिम् । यशसम् । धेहि । नव्यसीम् । पव्याइव । राजन् । अघ-शंसम् । अजर । नीचा । नि । वृश्च । वनिनम् । न । तेजसा
अस्माकम् । अग्ने । मघवत्-सु । धारय । अनामि । क्षत्रम् । अजरम् । सु-वीर्यम् । वयम् । जयेम । शतिनम् । सहस्रिणम् । वैश्वानर । वाजम् । अग्ने । तव । ऊति-भिः
अदब्धेभिः । तव । गोपाभिः । इष्टे । अस्माकम् । पाहि । त्रि-सदस्थ । सूरीन् । रक्ष । च । नः । ददुषाम् । शर्धः । अग्ने । वैश्वानर । प्र । च । तारीः । स्तवानः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0