ऋग्वेदसंहिता, पदपाठ · अध्याय 6.9
॥10॥.
-र्व्_4:5।11-
(र्व्_6,9)
अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेतेइति । रजसी इति । वेद्याभिः । वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि
न । अहम् । तन्तुम् । न । वि । जानामि । ओतुम् । न । यम् । वयन्ति । सम्-अरे । अतमानाः । कस्य । स्वित् । पुत्रः । इह । वक्त्वानि । परः । वदाति । अवरेण । पित्रा
सः । इत् । तन्तुम् । सः । वि । जानाति । ओतुम् । सः । वक्त्वानि । ऋतु-था । वदाति । यः । ईम् । चिकेतत् । अमृतस्य । गोपाः । अवः । चरन् । परः । अन्येन । पश्यन्
अयम् । होता । प्रथमः । पश्यत । इमम् । इदम् । ज्योतिः । अमृतम् । मर्त्येषु । अयम् । सः । जज्ञे । ध्रुवः । आ । नि-सत्तः । अमर्त्यः । तन्वा । वर्धमानः
ध्रुवम् । ज्योतिः । नि-हितम् । दृशये । कम् । मनः । जविष्ठम् । पतयत्-सु । अन्तरिति । विश्वे । देवाः । स-मनसः । स-केताः । एकम् । क्रतुम् । अभि । वि । यान्ति । साधु
वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आहितम् । यत् । वि । मे । मनः । चरति । दूरे--आधीः । किम् । स्वित् । वक्ष्यामि । किम् । ओं इति । नु । मनिष्ये
विश्वे । देवाः । अनमस्यन् । भियानाः । त्वाम् । अग्ने । तमसि । तस्थि-वांसम् । वैश्वानरः । अवतु । ऊतये । नः । अमर्त्यः । अवतु । ऊतये । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0