भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.7

6.7.1

॥8॥.
-र्व्_4:5।9-
(र्व्_6,7)
मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्-राजम् । अतिथिम् । जनानाम् । आसन् । आ । पात्रम् । जनयन्त । देवाः

6.7.2

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आहावम् । अभि । सम् । नवन्त । वैश्वानरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः

6.7.3

त्वत् । विप्रः । जायते । वाजी । अग्ने । त्वत् । वीरासः । अभिमाति-साहः । वैश्वानर । त्वम् । अस्मासु । धेहि । वसूनि । राजन् । स्पृहयाय्याणि

6.7.4

त्वाम् । विश्वे । अमृत । जायमानम् । शिशुम् । न । देवाः । अभि । सम् । नवन्ते । तव । क्रतु-भिः । अमृत-त्वम् । आयन् । वैश्वानर । यत् । पित्रोः । अदीदेः

6.7.5

वैश्वानर । तव । तानि । व्रतानि । महानि । अग्ने । नकिः । आ । दधर्ष । यत् । जायमानः । पित्रोः । उप-स्थे । अविन्दः । केतुम् । वयुनेषु । अह्नाम्

6.7.6

वैश्वानरस्य । वि-मितानि । चक्षसा । सानूनि । दिवः । अमृतस्य । केतुना । तस्य । इत् । ओं इति । विश्वा । भुवना । अधि । मूर्धनि । वयाः-इव । रुरुहुः । सप्त । वि-स्रुहः

6.7.7

वि । यः । रजांसि । अमिमीत । सु-क्रतुः । वैश्वानरः । वि । दिवः । रोचना । कवि ः । परि । यः । विश्वा । भुवनानि । पप्रथे । अदब्धः । गोपाः । अमृतस्य । रक्षि ता

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc