भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.74

6.74.1

॥17॥.
-र्व्_5:1।18-
(र्व्_6,74)
सोमारुद्रा । धारयेथाम् । असुर्यम् । प्र । वाम् इष्टयः । अरम् । अश्नुवन्तु । दमे--दमे । सप्त । रत्ना । दधाना । शम् । नः । भूतम् । द्वि-पदे । शम् । चतुः-पदे

6.74.2

सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । नः । गयम् । आविवेश । आरे । बाधेथाम् । निः-ऋतिम् । पराचैः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु

6.74.3

सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् । अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत्

6.74.4

तिग्म-आयुधौ । तिग्महेती इतितिग्म-हेती । सु-शेवौ । सोमारुद्रा । इह । सु । मृळतम् । नः । प्र । नः । मुञ्चतम् । वरुणस्य । पाशात् । गोपायतम् । नः । सु-मनस्यमाना

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc