ऋग्वेदसंहिता, पदपाठ · अध्याय 6.6
॥7॥.
-र्व्_4:5।8-
(र्व्_6,6)
प्र । नव्यसा । सहसः । सूनुम् । अच्छ । यज्ञेन । गातुम् । अवः । इच्छमानः । वृश्चत्-वनम् । कृष्णयामम् । रुशन्तम् । वीती । होतारम् । दिव्यम् । जिगाति
सः । श्वितानः । तान्यतुः । रोचन-स्थाः । अजरेभिः । नानदत्-भिः । यविष्ठः । यः । पावकः । पुरु-तमः । पुरूणि । पृथूनि । अग्निः । अनु-याति । भर्वन्
वि । ते । विष्वक् । वात-जूतासः । अग्ने । भामासः । शुचे । शुचयः । चरन्ति । तुवि-म्रक्षासः । दिव्याः । नव-ग्वाः । वना । वनन्ति । धृषता । रुजन्तः
ये । ते । शुक्रासः । शुचयः । शुचिष्मः । क्षाम् । वपन्ति । वि-सितासः । अश्वाः । अध । भ्रमः । ते । उर्विया । वि । भाति । यातयमानः । अधि । सानु । पृश्नेः
अध । जिह्वा । पापतीति । प्र । वृष्णः । गोषु-युधः । न । अशनिः । सृजाना । शूरस्य-इव । प्र-सितिः । क्षातिः । अग्नेः । दुः-वर्तुः । भीमः । दयते । वनानि
आ । भानुना । पार्थिवानि । ज्रयांसि । महः । तोदस्य । धृषता । ततन्थ । सः । बाधस्व । अप । भया । सहः-भिः । स्पृधः । वनुष्यन् । वनुषः । नि । जूवर्
सः । चित्र । चित्रम् । चितयन्तम् । अस्मे इति । चित्र-क्षत्र । चित्र-तमम् । वयः-धाम् । चन्द्रम् । रयिम् । पुरु-वीरम् । बृहन्तम् । चन्द्र । चन्द्राभिः । गृणते । युवस्व
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0