ऋग्वेदसंहिता, पदपाठ · अध्याय 6.68
॥10॥.
-र्व्_5:1।11-
(र्व्_6,68)
श्रुष्टी । वाम् । यज्ञः । उत्-यतः । स-जोषाः । मनुष्वत् । वृक्त-बर्हिषः । यजध्यै । आ । यः । इन्द्रावरुणौ । इषे । अद्य । महे । सुम्नाय । महे । आववर्तत्
ता । हि । श्रेष्ठा । देव-ताता । तुजा । शूराणाम् । शविष्ठा । ता । हि । भूतम् । मघोनाम् । मंहिष्ठा । तुवि-शुष्मा । ऋतेन । वृत्र-तुरा । सर्व-सेना
ता । गृणीहि । नमस्येभिः । शूषैः । सुम्नेभिः । इन्द्रावरुणा । चकाना । वज्रेण । अन्यः । शवसा । हन्ति । वृत्रम् । सिसक्ति । अन्यः । वृजनेषु । विप्रः
ग्नाः । च । यत् । नरः । च । ववृधन्त । विश्वे । देवासः । नराम् । स्व-गूर्ताः । प्र । एभ्यः । इन्द्रावरुणा । महि-त्वा । द्यौः । च । पृथिवि । भूतम् । उर्वी इति
सः । इत् । सु-दानुः । स्व-वान् । ऋत-वा । इन्द्रा । यः । वाम् । वरुणा दाशति । त्मन् । इषा । सः । द्विषः । तरेत् । दास्वान् । वंसत् । रयिम् । रयि-वतः । च । जनान्
॥11॥.
-र्व्_5:1।12-
यम् । युवम् । दाशु-अध्वराय । देवा । रयिम् । धत्थः । वसु-मन्तम् । पुरु-क्षुम् । अस्मे इति । सः । इन्द्रावरुणौ । अपि । स्यात् । प्र । यः । भनक्ति । वनुषाम् । अशस्तीः
उत । नः । सु-त्रातः । देव-गोपाः । सूरि-भ्यः । इन्द्रावरुणा । रयिः । स्यात् । येषाम् । शुष्मः । पृतनासु । साह्वान् । प्र । सद्यः । द्युम्ना । तिरते । ततुरिः
नु । नः । इन्द्रावरुणा । गृणाना । पृङ्क्तम् । रयिम् । सौश्रवसाय । देवा । इत्था । गृणन्तः । महिनस्य । शर्धः । अपः । न । नावा । दुः-इता । तरेम
प्र । सम्-राजे । बृहते । मन्म । नु । प्रियम् । अर्च । देवाय । वरुणाय । स-प्रथः । अयम् । यः । उर्वी इति । महिना । महि-व्रतः । क्रत्वा । वि-भाति । अजरः । न । शोचिषा
इन्द्रावरुणा । सुत-पौ । इमम् । सुतम् । सोमम् । पिबतम् । मद्यम् । धृत-व्रता । युवोः । रथः । अध्वरम् । देव-वीतये । प्रति । स्वसरम् । उप । याति । पीतये
इन्द्रावरुणा । मधुमत्-तमस्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् । इदम् । वाम् । अन्धः । परि-सिक्तम् । अस्मे इति । आसद्य । अस्मिन् । बर्हिषि । मादयेथाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0