ऋग्वेदसंहिता, पदपाठ · अध्याय 6.67
॥8॥.
-र्व्_5:1।9-
(र्व्_6,67)
विश्वेषाम् । वः । सताम् । ज्येष्ठ-तमा । गीः-भिः । मित्रावरुणा । ववृधध्यै । सम् । या । रश्माइव । यमतुः । यमिष्ठा । द्वा । जनान् । असमा । बाहु-भिः । स्वैः
इयम् । मत् । वाम् । प्र । स्तृणीते । मनीषा । उप । प्रिया । नमसा । बर्हिः । अच्छ । यन्तम् । नः । मित्रावरुणौ । अधृष्टम् । छर्दिः । यत् । वाम् । वरूथ्यम् । सुदानूइतिसु-दानू
आ । यातम् । मित्रावरुणा । सु-शस्ति । उप । प्रिया । नमसा । हूयमाना । सम् । यौ । अप्नः-स्थः । अपसाइव । जनान् । श्रुधि-यतः । चित् । यतथः । महित्वा
अश्वा । न । या । वाजिना । पूतबन्धूइतिपूत-बन्धू । ऋता । यत् । गर्भम् । अदितिः । भरध्यै । प्र । या । महि । महान्ता । जायमाना । घोरा । मर्ताय । रिपवे । नि । दीधरितिदीधः
विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । स-जोषाः । परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः
॥9॥.
-र्व्_5:1।10-
ता । हि । क्षत्रम् । धारयेथेइति । अनु । द्यून् । दृंहेथेइति । सानुम् । उपमात्-इव । द्योः । दृळ्हः । नक्षत्रः । उत । विश्व-देवः । भूमिम् । आ । अतान् । द्याम् । धासिना । आयोः
ता । विग्रम् । धैथेइति । जठरम् । पृणध्यै । आ । यत् । सद्म । स-भृतयः । पृट्णन्ति । न । मृष्यन्ते । युवतयः । अवाताः । वि । यत् । पयः । विश्व-जिन्वा । भरन्ते
ता । जिह्वया । सदम् । आ । इदम् । सु-मेधाः । आ । यत् । वाम् । सत्यः । अरतिः । ऋते । भूत् । तत् । वाम् । महि-त्वम् । घृत-अन्नौ । अस्तु । युवम् । दाशुषे । वि । चयिष्टम् । अंहः
प्र । यत् । वाम् । मित्रावरुणा । स्पूर्धन् । प्रिया । धाम । युव-धिता । मिनन्ति । न । ये । देवासः । ओहसा । न । मर्ताः । अयज्ञ-साचः । अप्यः । न । पुत्राः
वि । यत् । वाचम् । कीस्तासः । भरन्ते । शंसन्ति । के । चित् । नि-विदः । मनानाः । आत् । वाम् । ब्रवाम । सत्यानि । उक्था । नकिः । देवेभिः । यतथः । महि-त्वा
अवोः । इत्था । वाम् । छर्दिषः । अभिष्टौ । युवोः । मित्रावरुणौ । अस्कृधोयु । अनु । यत् । गावः । स्फुरान् । ऋजिप्यम् । धृष्णुम् । यत् । रणे । वृषणम् । युनजन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0