भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.69

6.69.1

॥12॥.
-र्व्_5:1।13-
(र्व्_6,69)
सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णूइति । अपसः । पारे । अस्य । जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथि-भिः । पारयन्ता

6.69.2

या । विश्वासाम् । जनितारा । मतीनाम् । इन्द्राविष्णूइति । कलशा । सोम-धाना । प्र । वाम् । गिरः । शस्यमानाः । अवन्तु । प्र । स्तोमासः । गीयमानासः । अर्कैः

6.69.3

इन्द्राविष्णूइति । मदपती इतिमद-पती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना । सम् । वाम् । अञ्जन्तु । अक्तु-भिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः

6.69.4

आ । वाम् । अश्वासः । अभिमाति-सहः । इन्द्राविष्णूइति । सध-मादः । वहन्तु । जुषेथाम् । विश्वा । हवना । मतीनाम् । उप । ब्रह्माणि । शृणुतम् । गिरः । मे

6.69.5

इन्द्राविष्णूइति । तत् । पनयाय्यम् । वाम् । सोमस्य । मदे । उरु । चक्रमाथेइति । अकृणुतम् । अन्तरिक्षम् । वरीयः । अप्रथतम् । जीवसे । नः । रजांसि

6.69.6

इन्द्राविष्णूइति । हविषा । ववृधाना । अग्र-अद्वाना । नमसा । रात-हव्या । घृतासुती इतिघृत-आसुती । द्रविणम् । धत्तम् । अस्मे इति । समुद्रः । स्थः । कलशः । सोम-धानः

6.69.7

इन्द्राविष्णूइति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् । आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे

6.69.8

उभा । जिग्यथुः । न । परा । जयेथेइति । न । परा । जिग्ये । कतरः । चन । एनोः । इन्द्रः । च । विष्णो इति । यत् । अपसृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc