भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.61

6.61.1

॥29॥.
-र्व्_4:8।30-
(र्व्_6,61)
इयम् । अददात् । रभसम् । ऋण-च्युतम् । दिवः-दासम् । वध्रि-अश्वाय । दाशुषे । या । शश्वन्तम् । आचखाद । अवसम् । पणिम् । ता । ते । दात्राणि । तविषा । सरस्वति

6.61.2

इयम् । शुष्मेभिः । बिसखाः-इव । अरुजत् । सानु । गिरीणाम् । तविषेभिः । ऊर्मि-भिः । पारावत-घ्नीम् । अवसे । सुवृक्ति-भिः । सरस्वतीम् । आ । विवासेम । धीति-भिः

6.61.3

सरस्वति । देव-निदः । नि । बर्हय । प्र-जाम् । विश्वस्य । बृसयस्य । मायिनः । उत । क्षिति-भ्यः । अवनीः । अविन्दः । विषम् । एभ्यः । अस्रवः । वाजिनी-वति

6.61.4

प्र । नः । देवी । सरस्वती । वाजेभिः । वाजिनी-वती । धीनाम् । अवित्री । अवतु

6.61.5

यः । त्वा । देवि । सरस्वति । उप-ब्रूते । धने । हिते । इन्द्रम् । न । वृत्र-तूयेर्

6.61.6

॥30॥.
-र्व्_4:8।31-
त्वम् । देवि । सरस्वति । अव । वाजेषु । वाजिनि । रद । पूषाइव । नः । सनिम्

6.61.7

उत । स्या । नः । सरस्वती । घोरा । हिरण्य-वर्तनिः । वृत्र-घ्नी । वष्टि । सु-स्तुतिम्

6.61.8

यस्याः । अनन्तः । अहुतः । त्वेषः । चरिष्णुः । अर्णवः । अमः । चरति । रोरुवत्

6.61.9

सा । नः । विश्वा । अति । द्विषः । सव्सृॠः । अन्या । ऋत-वरी । अतन् । अहाइव । सूर्यः

6.61.10

उत । नः । प्रिया । प्रियासु । सप्त-स्वसा । सु-जुष्टा । सरस्वती । स्तोम्या । भूत्

6.61.11

॥31॥.
-र्व्_4:8।32-
आपप्रुषी । पार्थिवानि । उरु । रजः । अन्तरिक्षम् । सरस्वती । निदः । पातु

6.61.12

त्रि-सधस्था । सप्त-धातुः । पञ्च । जाता । वर्धयन्ती । वाजे--वाजे । हव्या । भूत्

6.61.13

प्र । या । महिम्ना । महिनासु । चेकिते । द्युम्नेभिः । अन्या । अपसाम् । अपः-तमा । रथः-इव । बृहती । वि-भ्वने । कृता । उप-स्तुत्या । चिकितुषा । सरस्वती

6.61.14

सरस्वति । अभि । नः । नेषि । वस्यः । मा । अप । स्फरीः । पयसा । मा । नः । आ । धक् । जुषस्व । नः । सख्या । वेश्या । च । मा । त्वत् । क्षेत्राणि । अरणानि । गन्म

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc