ऋग्वेदसंहिता, पदपाठ · अध्याय 6.60
॥26॥.
-र्व्_4:8।27-
(र्व्_6,60)
श्नथत् । वृत्रम् । उत । सनोति । वाजम् । इन्द्रा । यः । अग्नी इति । सहुरी इति । सपर्यात् । इरज्यन्ता । वसव्यस्य । भूरेः । सहः-तमा । सहसा । वाज-यन्ता
ता । योधिष्टम् । अभि । गाः । इन्द्र । नूनम् । अपः । स्वः । उषसः । अग्ने । ऊळ्हाः । दिशः । स्वः । उषसः । इन्द्र । चित्राः । अपः । गाः । अग्ने । युवसे । नियुत्वान्
आ । वृत्र-हना । वृत्रह-भिः । शुष्मैः । इन्द्र । यातम् । नमः-भिः । अग्ने । अर्वाक् । युवम् । राधः-भिः । अकवेभिः । इन्द्र । अग्ने । अस्मे इति । भवतम् । उत्-तमेभिः
ता । हुवे । ययोः । इदम् । पप्ने । विश्वम् । पुरा । कृतम् । इन्द्राग्नी इति । न । मर्धतः
उग्रा । वि-घनिना । मृधः । इन्द्राग्नी इति । हवामहे । ता । नः । मृळातः । ईदृशे
॥27॥.
-र्व्_4:8।28-
हतः । वृत्राणि । आर्या । हतः । दासानि । सत्पती इतिसत्-पती । हतः । विश्वाः । अप । द्विषः
इन्द्राग्नी इति । युवाम् । इमे । अभि । स्तोमाः । अनूषत । पिबतम् । शम्-भुवा । सुतम्
याः । वाम् । सन्ति । पुरु-स्पृहः । नि-युतः । दाशुषे । नरा । इन्द्राग्नी इति । ताभिः । आ । गतम्
ताभिः । आ । गच्छतम् । नरा । उप । इदम् । सवनम् । सुतम् । इन्द्राग्नी इति । सोम-पीतये
तम् । ईळिष्व । यः । अर्चिषा । वना । विश्वा । परि-स्वजत् । कृष्णा । कृणोति । जिह्वया
॥28॥.
-र्व्_4:8।29-
यः । इद्धे । आविवासति । सुम्नम् । इन्द्रस्य । मर्त्यः । द्युम्नाय । सु-तराः । अपः
ता । नः । वाज-वतीः । इषः । आशून् । पिपृतम् । अर्वतः । इन्द्रम् । अग्निम् । च । वोळ्हवे
उभा । वाम् । इन्द्राग्नी इति । आहुवध्यै । उभा । राधसः । सह । मादयध्यै । उभा । दातारौ । इषाम् । रयीणाम् । उभा । वाजस्य । सातये । हुवे । वाम्
आ । नः । गव्येभिः । अश्व्यैः । वसव्यैः । उप । गच्छतम् । सखायौ । देवौ । सख्याय । शम्-भुवा । इन्द्राग्नी इति । ता । हवामहे
इन्द्राग्नी इति । शृणुतम् । हवम् । यजमानस्य । सुन्वतः । वीतम् । हव्यानि । आ । गतम् । प् इबतम् । सोम्यम् । मधु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0