भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.62

6.62.1

॥32॥.
-र्व्_5:1।1-
(र्व्_6,62)
स्तुषे । नरा । दिवः । अस्य । प्र-सन्ता । अश्विना । हुवे । जरमाणः । अर्कैः । या । सद्यः । उस्रा । वि-उषि । ज्मः । अन्तान् । युयाऊषतः । परि । उरु । वरांसि

6.62.2

ता । यज्ञम् । आ । शुचि-भिः । चक्रमाणा । रथस्य । भानुम् । रुरुचुः । रजः-भिः । पुरु । वरांसि । अमिता । मिमाना । अपः । धन्वानि । अति । याथः । अज्रान्

6.62.3

ता । ह । त्यत् । वर्तिः । यत् । अरध्रम् । उग्रा । इत्था । धियः । ऊहथुः । शश्वत् । अश्वैः । मनः-जवेभिः । इषिरैः । शयध्यै । परि । व्यर्थिः । दाशुषः । मर्त्यस्य

6.62.4

ता । नव्यसः । जरमाणस्य । मन्म । उप । भूषतः । युयुजानसप्ती इतियुयुजान-सप्ती । शुभम् । पृक्षम् । इषम् । ऊर्जम् । वहन्ता । होता । यक्षत् । प्रत्नः । अध्रुक् । युवाना

6.62.5

ता । वल्गू । दस्रा । पुरुशाक-तमा । प्रत्ना । नव्यसा । वचसा । आ । विवासे । या । शंसते । स्तुवते । शम्-भविष्ठा । बभूवतुः । गृणते । चित्रराती इतिचित्र-राती

6.62.6

॥1॥.
-र्व्_5:1।2-
ता । भुज्युम् । वि-भिः । अत्-भ्यः । समुद्रात् । तुग्रस्य । सूनुम् । ऊहथुः । रजः-भिः । अरेणु-भिः । योजनेभिः । भुजन्ता । पतत्रि-भिः । अर्णसः । निः । उप-स्थात्

6.62.7

वि । जयुषा । रथ्या । यातम् । अद्रिम् । श्रुतम् । हवम् । वृषणा । वध्रि-मत्याः । दशस्यन्ता । शयवे । पिप्यथुः । गाम् । इति । च्यवाना । सु-मतिम् । भुरण्यूइति

6.62.8

यत् । रोदसी इति । प्र-दिवः । अस्ति । भूमा । हेळः । देवानाम् । उत । मर्त्य-त्रा । तत् । आदित्याः । वसवः । रुद्रियासः । रक्षः-युजे । तपुः । अघम् । दधात

6.62.9

यः । ईम् । राजानौ । ऋतु-था । वि-दधत् । रजसः । मित्रः । वरुणः । चिकेतत् । गम्भीराय । रक्षसे । हेतिम् । अस्य । द्रोघाय । चित् । वचसे । आनवाय

6.62.10

अन्तरैः । चक्रैः । तनयाय । वर्तिः । द्यु-मता । आ । यातम् । नृ-वता । रथेन । सनुत्येन । त्यजसा । मर्त्यस्य । वनुष्यताम् । अपि । शीर्षा । ववृक्तम्

6.62.11

आ । परमाभिः । उत । मध्यमाभिः । नियुत्-भिः । यातम् । अवमाभिः । अर्वाक् । दृळ्हस्य । चित् । गो--मतः । वि । व्रजस्य । दुरः । वर्तम् । गृणते । चित्रराती इतिचित्र-राती

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc