ऋग्वेदसंहिता, पदपाठ · अध्याय 6.59
॥24॥.
-र्व्_4:8।25-
(र्व्_6,59)
प्र । नु । वोच । सुतेषु । वाम् । वीर्या । यानि । चक्रथुः । हतासः । वाम् । पितरः । देव-शत्रवः । इन्द्राग्नी इति । जीवथः । युवम्
बट् । इत्था । महिमा । वाम् । इन्द्राग्नी इति । पनिष्ठः । आ । समानः । वाम् । जनिता । भ्रातरा । युवम् । यमौ । इहेह-मातरा
ओकि-वांसा । सुते । सचा । अश्वा । सप्तीइवेतिसप्ती-इव । आदने । इन्द्रा । नु । अग्नी इति । अवसा । इह । वज्रिणा । वयम् । देवा । हवामहे
यः । इन्द्राग्नी इति । सुतेषु । वाम् । स्तवत् । तेषु । ऋत-वृधा । जोष-वाकम् । वदतः । पज्र-होषि णा । न । देवा । भसथः । चन
इन्द्राग्नी इति । कः । अस्य । वाम् । देवौ । मर्तः । चिकेतति । विषूचः । अश्वान् । युयुजानः । ईयते । एकः । समाने । आ । रथे
॥25॥.
-र्व्_4:8।26-
इन्द्राग्नी इति । अपात् । इयम् । पूर्वा । आ । अगात् । पत्-वतीभ्यः । हित्वी । शिरः । जिह्वया । वावदत् । चरत् । त्रिंशत् । पदा । नि । अक्रमीत्
इन्द्राग्नी इति । आ । हि । तन्वते । नरः । धन्वानि । बाह्वोः । मा । नः । अस्मिन् । महाधने । परा । वर्क्तम् । गो--इष्टिषु
इन्द्राग्नी इति । तपन्ति । मा । अघाः । अर्यः । अरातयः । अप । द्वेषांसि । आ । कृतम् । युयुतम् । सूर्यात् । अधि
इन्द्राग्नी इति । युवोः । अपि । वसु । दिव्यानि । पार्थिवा । आ । नः । इह । प्र । यच्छतम् । रयिम् । विश्वायु-पोषसम्
इन्द्राग्नी इति । उक्थ-वाहसा । स्तोमेभिः । हवन-श्रुता । विश्वाभिः । गीः-भिः । आ । गतम् । अस्य । सोमस्य । पीतये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0