भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.5

6.5.1

॥6॥.
-र्व्_4:5।7-
(र्व्_6,5)
हुवे । वः । सूनुम् । सहसः । युवानम् । अद्रोघ-वाचम् । मति-भिः । यविष्ठम् । यः । इन्वति । द्रविणानि । प्र-चेताः । विश्व-वाराणि । पुरु-वारः । अध्रुक्

6.5.2

त्वे इति । वसूनि । पुरु-अणीक । होतः । दोषा । वस्तोः । आ । ईरिरे । यज्ञियासः । क्षाम-इव । विश्वा । भुवनानि । यस्मिन् । सम् । सौभगानि । दधिरे । पावके

6.5.3

त्वम् । विक्षु । प्र-दिवः । सीद । आसु । क्रत्वा । रथीः । अभवः । वार्याणाम् । अतः । इनोषि । विधते । चिकित्वः । वि । आनुषक् । जात-वेदः । वसूनि

6.5.4

यः । नः । सनुत्यः । अभि-दासत् । अग्ने । यः । अन्तरः । मित्र-महः । वनुष्यात् । तम् । अजरेभिः । वृष-भिः । तव । स्वैः । तप । तपिष्ठ । तपसा । तपस्वान्

6.5.5

यः । ते । यज्ञेन । सम्-इधा । यः । उक्थैः । अर्केभिः । सूनो इति । सहसः । ददाशत् । सः । मर्त्येषु । अमृत । प्र-चेता । राया । द्युम्नेन । श्रवसा । वि । भाति

6.5.6

सः । तत् । कृधि । इषितः । तूयम् । अग्ने । स्पृधः । बाधस्व । सहसा । सहस्वान् । यत् । शस्यसे । द्यु-भिः । अक्तः । वचः-भिः । तत् । जुषस्व । जरितुः । घोषि । मन्म

6.5.7

अश्याम । तम् । कामम् । अग्ने । तव । ऊती । अश्याम । रयिम् । रयि-वः । सु-वीरम् । अश्याम । वाजम् । अभि । वाजयन्त्स् । अश्याम । द्युम्नम् । अजर । अजरम् । ते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc