भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.56

6.56.1

॥21॥.
-र्व्_4:8।22-
(र्व्_6,56)
यः । एनम् । आदिदेशति । करम्भ-अत् । इति । पूषणम् । न । तेन । देवः । आदिशे

6.56.2

उत । घ । सः । रथि-तमः । सख्या । सत्-पतिः । युजा । इन्द्रः । वृत्राणि । जिघ्नते

6.56.3

उत । अदः । परुषे । गवि । सूरः । चक्रम् । हिरण्ययम् । नि । ऐरयत् । रथि-तमः

6.56.4

यद् अद्य । त्वा । पुरु-स्तुत । ब्रवाम । दस्र । मन्तु-मः । तत् । सु । नः । मन्म । साधय

6.56.5

इमम् । च । नः । गो--एषणम् । सातये । सीसधः । गणम् । आरात् । पूषन् । असि । श्रुतः

6.56.6

आ । ते । स्वस्तिम् । ईमहे । आरे--अघाम् । उप-वसुम् । अद्य । च । सर्व-तातये । श्वः । च । सर्व-तातये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc