भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.55

6.55.1

॥20॥.
-र्व्_4:8।21-
(र्व्_6,55)
आ । इहि । वाम् । वि-मुचः । नपात् । आघृणे । सम् । सचावहै । रथीः । ऋतस्य । नः । भव

6.55.2

रथि-तमम् । कपर्दिनम् । ईशानम् । राधसः । महः । रायः । सखायम् । ईमहे

6.55.3

रायः । धारा । असि । आघृणे । वसोः । राशिः । अज-अश्व । धीवतः-धीवतः । सखा

6.55.4

पूषणम् । नु । अज-अश्वम् । उप । स्तोषाम । वाजिनम् । स्वसुः । यः । जारः । उच्यते

6.55.5

मातुः । दिधिषुम् । अब्रवम् । स्वसुः । जारः । शृणोतु । नः । भ्राता । इन्द्रस्य । सखा । मम

6.55.6

आजासः । पूषणम् । रथे । नि-शृम्भाः । ते । जन-श्रियम् । देवम् । वहन्तु । बिभ्रतः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc