ऋग्वेदसंहिता, पदपाठ · अध्याय 6.57
॥22॥.
-र्व्_4:8।23-
(र्व्_6,57)
इन्द्रा । नु । पूषणा । वयम् । सख्याय । स्वस्तये । हुवेम । वाज-सातये
सोमम् । अन्यः । उप । असदत् । पातवे । चम्वोः । सुतम् । करम्भम् । अन्यः । इच्छति
अजाः । अन्यस्य । वह्नयः । हरी इति । अन्यस्य । सम्-भृता । । ताभ्याम् । वृत्राणि । जिघ्नते
यत् । इन्द्रः । अनयत् । रितः । महीः । अपः । वृषन्-तमः । तत्र । पूषा । अभवत् । सचा
ताम् । पूष्णः । सु-मतिम् । वयम् । वृक्षस्य । प्र । वयाम्-इव । इन्द्रस्य । च । आ । रभामहे
उत् । पूषणम् । युवामहे । अभीशून्-इव । सारथिः । मह्यै । इन्द्रम् । स्वस्तये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0