ऋग्वेदसंहिता, पदपाठ · अध्याय 6.51
॥10॥.
-र्व्_4:8।11-
(र्व्_6,51)
उत् । ओं इति । त्यत् । चक्षुः । महि । मित्रयोः । आ । एति । प्रियम् । वरुणयोः । अदब्धम् । ऋतस्य । शुचि । दर्शतम् । अनीकम् । रुक्मः । न । दिवः । उत्-इता । वि । अद्यौत्
वेद । यः । त्रीणि । विदथानि । एषाम् । देवानाम् । जन्म । सनुतः । आ । च । विप्रः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् । अभि । चष्टे । सूरः । अर्यः । एवान्
स्तुषे । ओं इति । वः । महः । ऋतस्य । गोपान् । अदितिम् । मित्रम् । वरुणम् । सु-जातान् । अर्यमणम् । भगम् । अदब्ध-धीतीन् । अच्छ । वोचे । स-धन्यः । पावकान्
रिशादसः । सत्-पतीन् । अदब्धान् । महः । राज्ञः । सु-वसनस्य । दातॄन् । यूनः । सु-क्षत्रान् । क्षयतः । दिवः । नॄन् । आदित्यान् । यामि । अदितिम् । दुवः-यु
द्यौः । पितः । पृथिवि । मातः । अध्रुक् । अग्ने । भ्रातः । वसवः । मृळत । नः । वि श्वे । आदित्याः । अदिते । स-जोषाः । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्त
॥11॥.
-र्व्_4:8।12-
मा । नः । वृकाय । वृक्ये । समस्मै । अघ-यते । रीरधत । यजत्राः । यूयम् । हि । स्थ । रथ्यः । नः । तनूनाम् । यूयम् । दक्षस्य । वचसः । बभूव
मा । वः । एनः । अन्य-कृतम् । भुजेम । मा । तत् । कर्म । वसवः । यत् । चयध्वे । विश्वस्य । हि । क्षयथ । विश्व-देवाः । स्वयम् । रिपुः । तन्वम् । रिरिषीष्ट
नमः । इत् । उग्रम् । नमः । आ । विवासे । नमः । दाधार । पृथिवीम् । उत । द्याम् । नमः । देवेभ्यः । नमः । ईशे । एषाम् । कृतम् । चित् । एनः । नमसा । आ । विवासे
ऋतस्य । वः । रथ्यः । पूत-दक्षान् । ऋतस्य । पस्त्य-सदः । अदब्धान् । तान् । आ । नमः-भिः । उरु-चक्षसः । नॄन् । विश्वान् । वः । आ । नमे । महः । यजत्राः
ते । हि । श्रेष्ठ-वर्चसः । ते । ओं इति । नः । तिरः । विश्वानि । दुः-इता । नयन्ति । सु-क्षत्रासः । वरुणः । मित्रः । अग्निः । ऋत-धीतयः । वक्मराज-सत्याः
॥12॥.
-र्व्_4:8।13-
ते । नः । इन्द्रः । पृथिवी । क्षाम । वर्धन् । पूषा । भगः । अदितिः । पञ्च । जनाः । सु-शर्माणः । सु-अवसः । सु-नीथाः । भवन्तु । नः । सु-त्रात्रासः । सु-गोपाः
नु । सद्मानम् । दिव्यम् । नंशि । देवाः । भारत्-वाजः । सु-मतिम् । याति । होता । आसानेभिः । यजमानः । मियेधैः । देवानाम् । जन्म । वसु-युः । ववन्द
अप । त्यम् । वृजिनम् । रिपुम् । स्तेनम् । अग्ने । दुः-आध्यम् । दविष्ठम् । अस्य । सत्-पते । कृधि । सु-गम्
ग्रावाणः । सोम । नः । हि । कम् । सखि-त्वनाय । वावशुः । जहि । नि । अत्रिणम् । पणिम् । वृकः । हि । सः
यूयम् । हि । स्थ । सु-दानवः । इन्द्र-ज्येष्ठाः । अभि-द्यवः । कर्ता । नः । अध्वन् । आ । सु-गम् । गोपाः । अमा
अपि । पन्थाम् । अगन्महि । स्वस्ति-गाम् । अनेहसम् । येन । विश्वाः । परि । द्विषः । वृणक्ति । विन्दते । वसु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0