भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.52

6.52.1

॥13॥.
-र्व्_4:8।14-
(र्व्_6,52)
न । तत् । दिवा । न । पृथिव्या । अनु । मन्ये । न । यज्ञेन । न । उत । शमीभिः । आभिः । उब्जन्तु । तम् । सु-भ्वः । पर्वतासः । नि । हीयताम् । अति-याजस्य । यष्टा

6.52.2

अति । वा । यः । मरुतः । मन्यते । नः । ब्रह्म । वा । यः । क्रियमाणम् । निनित्सात् । तपाऊंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्म-द्विषम् । अभि । तम् । शोचतु । द्यौः

6.52.3

किम् । अङ्ग । त्वा । ब्रह्मणः । सोम । गोपाम् । किम् । अङ्ग । त्वा । आहुः । अभिशस्ति-पाम् । नः । किम् । अङ्ग । नः । पश्यसि । निद्यमानान् । ब्रह्म-द्विषे । तपुषिम् । हेतिम् । अस्य

6.52.4

अवन्तु । माम् । उषसः । जायमानाः । अवन्तु । मा । सिन्धवः । पिन्वमानाः । अवन्तु । मा । पर्वतासः । ध्रुवासः । अवन्तु । मा । पितरः । देव-हूतौ

6.52.5

विश्व-दानीम् । सु-मनसः । स्याम । पश्येम । नु । सूर्यम् । उच्चरन्तम् । तथा । करत् । वसु-पतिः । वसूनाम् । देवान् । ओहानः । अवसा । आगमिष्ठः

6.52.6

॥14॥.
-र्व्_4:8।15-
इन्द्रः । नेदिष्ठम् । अवसा । आगमिष्ठः । सरस्वती । सिन्धु-भिः । पिन्वमाना । पर्जन्यः । नः । ओषधीभिः । मयः-भुः । अग्निः । सु-शंसः । सु-हवः । पिताइव

6.52.7

विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् । आ । इदम् । बर्हिः । नि । सीदत

6.52.8

यः । वः । देवाः । घृत-स्नुना । हव्येन । प्रति-भूषति । तम् । विश्वे । उप । गच्छथ

6.52.9

उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । ये । सु-मृळीकाः । भवन्तु । नः

6.52.10

विश्वे । देवाः । ऋत-वृधः । ऋतु-भिः । हवन-श्रुतः । जुषन्ताम् । युज्यम् । पयः

6.52.11

॥15॥.
-र्व्_4:8।16-
स्तोत्रम् । इन्द्रः । मरुत्-गणः । त्वष्टृ-मान् । मित्रः । अर्यमा । इमा । हव्या । जुषन्त । नः

6.52.12

इमम् । नः । अग्ने । अध्वरम् । होतः । वयुन-शः । यज । चिकित्वान् । दैव्यम् । जनम्

6.52.13

विश्वे । देवाः । शृणुत । इमम् । हवम् । मे । ये । अन्तरिक्षे । ये । उप । द्यवि । स्थ । ये । अग्नि-जिह्वाः । उत । वा । यजत्राः । आसद्य । अस्मिन् । बर्हिषि । मादयध्वम्

6.52.14

विश्वे । देवाः । मम । शृण्वन्तु । यज्ञियाः । उभे इति । रोदसी इति । अपाम् । नपात् । च । मन्म । मा । वः । वचांसि । परि-चक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम

6.52.15

ये । के । च । ज्मा । महिनः । अहि-मायाः । दिवः । जज्ञिरे । अपाम् । सध-स्थे । ते । अस्मभ्यम् । इषये । विश्वम् । आयुः । क्षपः । उस्राः । वरिवस्यन्तु । देवाः

6.52.16

अग्नीपर्जन्यौ । अवतम् । धियम् । मे । अस्मिन् । हवे । सु-हवा । सु-स्तुतिम् । नः । इळाम् । अन्यः । जनयत् । गर्भम् । अन्यः । प्रजावतीः । इषः । आ । धत्तम् । अस्मे इति

6.52.17

स्तीर्णे । बर्हिषि । सम्-इधाने । अग्नौ । सु-उक्तेन । महा । नमसा । विवासे । अस्मिन् । नः । अद्य । विदथे । यजत्राः । । विश्वे । देवाः । हविषि । मादयध्वम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc