भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.50

6.50.1

॥7॥.
-र्व्_4:8।8-
(र्व्_6,50)
हुवे । वः । देवीम् । अदितिम् । नमः-भिः । मृळीकाय । वरुणम् । मित्रम् । अग्निम् । अभि क्ष-दाम् । अर्यमणम् । सु-शेवम् । त्रातॄन् । देवान् । सवितारम् । भगम् । च

6.50.2

सु-ज्योतिषः । सूर्य । दक्ष-पितॄन् । अनागाः-त्वे । सु-महः । वीहि । देवान् । द्वि-जन्मानः । ये । ऋत-सापः । सत्याः । स्वः-वन्तः । यजताः । अग्नि-जिह्वाः

6.50.3

उत । द्यावापृथिवी इति । क्षत्रम् । उरु । बृहत् । रोदसी इति । शरणम् । सुसुम्नेइतिसु-सुम्ने । महः । करथः । वरिवः । यथा । नः । अस्मे इति । क्षयाय । धिषणेइति । अनेहः

6.50.4

आ । नः । रुद्रस्य । सूनवः । नमन्ताम् । अद्य । हूतासः । वसवः । अधृष्टाः । यत् । ईम् । अर्भे । महति । वा । हितासः । बाधे । मरुतः । अह्वाम । देवान्

6.50.5

मिम्यक्ष । येषु । रोदसी । नु । देवी । सिसक्ति । पूषा । अभ्यर्ध-यज्वा । श्रुत्वा । हवम् । मरुतः । यत् । ह । याथ । भूम । रेजन्ते । अध्वनि । प्र-विक्ते

6.50.6

॥8॥.
-र्व्_4:8।9-
अभि । त्यम् । वीरम् । गिर्वणसम् । अर्च । इन्द्रम् । ब्रह्मणा । जरितः । नवेन । श्रवत् । इत् । हवम् । उप । च । स्तवानः । रासत् । वाजान् । उप । महः । गृणानः

6.50.7

ओमानम् । आपः । मानुषीः । अमृक्तम् । धात । तोकाय । तनयाय । शम् । योः । यूयम् । हि । स्थ । भिषजः । मातृ-तमाः । विश्वस्य । स्थातुः । जगतः । जनित्रीः

6.50.8

आ । नः । देवः । सविता । त्रायमाणः । हिरण्य-पाणिः । यजतः । जगम्यात् । यः । दत्र-वान् । उषसः । न । प्रतीकम् । वि-ऊर्णुते । दाशुषे । वार्याणि

6.50.9

उत । त्वम् । सूनो इति । सहसः । नः । अद्य । देवान् । अस्मिन् । अध्वरे । ववृत्याः । स्याम् । अहम् । ते । सदम् । इत् । रातौ । तव । स्याम् । अग्ने । अवसा । सु-वीरः

6.50.10

उत । त्या । मे । हवम् । आ । जग्म्यातम् । नासत्या । धीभिः । युवम् । अङ्ग । विप्रा । अत्रिम् । न । महः । तमसः । अमुमुक्तम् । तूर्वतम् । नरा । दुः-इतात् । अभीके

6.50.11

॥9॥.
-र्व्_4:8।10-
ते । नः । रायः । द्यु-मतः । वाज-वतः । दातारः । भूत । नृ-वतः । पुरु-क्षोः । दशस्यन्तः । दिव्याः । पार्थिवासः । गो--जाताः । अप्याः । मृळत । च । देवाः

6.50.12

ते । नः । रुद्रः । सरस्वती । स-जोषाः । मीळ्हुष्मन्तः । विष्णुः । मृळन्तु । वायुः । ऋभुक्षाः । वाजः । दैव्यः । वि-धाता । पर्जन्यावाता । पिप्यताम् । इषम् । नः

6.50.13

उत । स्यः । देवः । सविता । भगः । नः । अपाम् । नपात् । अवतु । दानु । पप्रिः । त्वष्टा । देवेभिः । जनि-भिः । स-जोषाः । द्यौः । देवेभिः । पृथिवी । समुद्रैः

6.50.14

उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एक-पात् । पृथिवी । समुद्रः । विश्वे । देवाः । ऋत-वृधः । हुवानाः । स्तुताः । मन्त्राः । कवि-शस्ताः । अवन्तु

6.50.15

एव । नपातः । मम । तस्य । धीभिः । भरत्-वाजाः । अभि । अर्चन्ति । अर्कैः । ग्नाः । हुतासः । वसवः । अधृष्टाः । विश्वे । स्तुतासः । भूत । यजत्राः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc